________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१४६॥
सूत्रम्
पुणो चारित्तसंपत्तो सुयसायरपारओ ।
जहोवइट्ठधम्मस्स देसओ दुहनासओ ॥२७७।। व्याख्या-'पुणो चारित्त०' मनुजत्वादिसामग्रीसद्भावेऽपि सद् गुरुविरहात् कुशास्त्रश्रवणोत्पन्नवैराग्याः प्रायः प्रभूतजन्तवः प्रचुरमज्ञानकष्टमनुष्ठाय, पापानुबन्धिपुण्यानुभावतः सांसारिकसुखलवमासाद्य, मिथ्यात्वादिभिरुपचितकर्मसंभारा भूयस्तथैव भवार्णवनिमज्जनोन्मज्जनेऽनेकशः कुर्वन्तीत्यतो विशेषेण सद् गुरुदुर्लभताद्योतकोऽत्र पुनः शब्दः । स च कीदृगित्यत आह- चारित्रसम्पन्नश्चरणकरणक्रियान्वितः । श्रुतमङ्गानङ्गप्रविष्टादि, तत्सूत्रतः सामायिकादिलोकबिन्दुसारपर्यवसानं, दुःषमादिदोषादिना तु कदाचित् कियदपि भवति । अर्थस्तु
सबनईणं जा होज्ज वालुया, सबउदहिणं जं तोयं ।
तत्तो वि समहिओ खलु, अत्थो इक्कस्स सुत्तस्स ||१।।' इत्यतोऽतिबहुत्वादुत्सर्गापवादादिना अतिगम्भीरत्वाच्च सागर इव श्रुतसागरस्तस्य पारगः, समयानुसारिसूत्रार्थधारक इत्यर्थः । यथोपदिष्टधर्मस्य देशक:- यथा तीर्थकरगणधरादिभिरुपदिष्टो यथोपदिष्टः स चासौ धर्मश्च श्रुतचारित्रात्मकस्तस्य देशकः । अत एव दुःखनाशकः, स्वपरयोरिति शेषः, स्थविरकल्पिकस्य हि स्वपरतारकत्वेन प्रसिद्धत्वादिति ॥२७७॥
coooooooooooooooooooo
||१४६॥
For Private and Personal Use Only