________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥१४३॥
www.kobatirth.org
व्याख्या-`स्पष्टार्था ||२७०॥ सम्प्रति श्रावकधर्मोपदेशं समर्थयन् विशेषाभिग्रहानेव सूत्रद्वयेनाहचिइवंदणं तिकालं, पच्चक्खाणं अपुव्वपढणं च । गावगाहसुणणं, गुणणं नवकारमाईणं || २७१|| विस्सामणं जईणं, ओसहदाणं गिलाण पडियरणं । लोयदिणे घयदाणं, दायव्वमभिग्गहजुएहिं ॥ २७२॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'चिइवंदण० विस्सामणं०' चिइवंदणंति चैत्यवन्दनं द्रव्यभावपूजात्मकं, कार्यमिति सर्वत्र क्रियाध्याहारः । कथम् ? त्रिकालं, सूर्योदयमध्याह्नास्तसमयरूपसन्ध्यात्रय इत्यर्थः । तथा प्रत्याख्यानं नमस्कारसहितादि । तथाऽपूर्वपठनं - पूर्वाधीताविस्मारणेन नूतनाध्ययनम् । तथा 'गाहद्धगाहसुणणं 'ति अत्रापेर्गम्यमानत्वात् गाथार्धगाथयोरपि श्रवणं । कोऽर्थो ? यदि प्रभूतं श्रोतुं न पारयति तदैतन्मात्रस्यापि श्रवणं कार्यं विशिष्टतरफलहेतुत्वात् । तथा चोक्तम्- `सोचा जाणइ कल्लाणमित्यादि । तथा गुणनं यथागृहीतसंख्यानां नमस्कारणामादिशब्दाच्छेषस्वाध्यायपरिग्रहः । तथा विश्रामणं- सम्बाधनं यतीनाम् । तथा तेषामेवौषधदानम् । तथा ग्लानप्रतिजागरणं- ग्लानिप्राप्तसाध्वादिशरीरनिराबाधवार्त्तादिप्रच्छनं । तथा लोचदिने घृतदानं दातव्यमभिग्रहयुक्तैर्नियमपरैरिति भावः । उपलक्षणमिदं श्रावकसत्कदर्शनादिप्रतिमाभिग्रहाणामेकैकमासवृद्धानां तासां विशेषस्वरूपं दशाश्रुतस्कन्धादिभ्योऽवसेयमिति ||२७१|| २७२।। पूर्वगाथायां लोयदिणे घयदाणमित्युक्तं तच्च किं क्वाप्यन्यत्र भणितं वा न वेति कस्यचिदा
For Private and Personal Use Only
सूत्रम्
1198311