________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१३१।।
व्याख्या-'जेणं लोग०' सुगमः । नवरं लिप्यते- राजपुरुषैर्दण्ड्यते, तस्य- चौरस्य दोषेण चौरिकादिसंभवेन, तथा च नीतिः-'चौरचौरापको मन्त्री, भेदज्ञः काणकः क्रयी । अन्नदः स्थानदश्चैव चौरः, सप्तविधः स्मृतः ।।१।।' इति ।।२४८॥ निगमनमाह
तम्हा नायतत्तेणं, सड़ढेणं तु दिणे दिणे ।
दव्दओ भावओ पुदि, कायदमणुसासणं ।।२४९।। व्याख्या-'तम्हा नाय०' प्रकटार्थः । नवरमनुशासनं- सुस्थितदुःस्थितत्वादिचिन्तनम् ।।२४९।। तदेवाह
दवओ वत्थमाईणि, भावओ धम्मदेसणं ।
सुद्धं धम्मं जिणुद्दिटुं, वक्खमाणो न बज्झए ।।२५०॥ व्याख्या-'दलओ वत्थमाईणि भावओ धम्मदेसणं०' द्रव्यतः पुत्रकलदुहित्रादीनां यथायोग्यं वस्त्रादि ददाति, 'पोष्यपोषक' इति वचनात् । भावतस्तु तेषामेव धर्मदेशनां करोति । यद्येवमपि ते न प्रतिबुध्यन्ते ततः किमित्याह-शुद्धं धर्मं जिनोद्दिष्टं व्याचक्षाण:- स्वशक्त्या कथयन् न बध्यते- न लिप्यते जिनाज्ञाराधकत्वेन, तत्कृतकर्मणेति शेषः ||२५०|| तमेव धर्मदेशनाविधिमाह
doodoodoodoodoodoodoodoodboobodoodbo0bodoodoodbodoodoodbod TTTTTTTTTT
॥१३१॥
For Private and Personal Use Only