________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०. ||११२||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'तओ य क०' सुगमा । नवरं 'धम्मियं' ति धर्मादनपेता धर्म्या सोम ! महात्मन्नित्यादिश्रुत्याह्लादकसम्बोधनरूपतया, सैव धार्मिका ताम् ॥ २१४॥ तामेव प्रेरणां षट्सूत्र्याह
For Private and Personal Use Only
सूत्रम्
दुल्हो माणुसो जम्मो, धम्मो सव्वन्नुदेसिओ । साहुसाहम्मियाणं तु, सामग्गी पुण दुल्लहा ॥ २१५॥
व्याख्या- 'दुल्लहो०' अत्र च प्रयोगैर्व्याख्या । तथा हि-जीवोऽयमेकदा मानुष्यं जन्म संप्राप्य पुनस्तदेव दुःखेन प्राप्नोतीति प्रतिज्ञा ।१। अकृतधर्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतुः २ । यद्यद् बहुभिरन्तरायैरन्तरितं तत्तद्दुःखेन प्राप्यते, ब्रह्मदत्तचक्रवर्तिमित्रस्य लब्धवरस्य ब्राह्मणस्य एकदा चक्रवर्तिगृहे कृतभोजनस्य सकलभरतक्षेत्रवास्तव्यराजादिलोकगृहभोजनपर्यवसाने पुनश्चक्रवर्तिगृहे चोल्लकापरनामभोजनवारकवत् १ | चाणक्यवरदत्तपाशकविपरीतपातवत् २ । भरतक्षेत्रगतसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थकस्य जरत्स्थविरया पुनर्मीलकवद्वा ३ । राज्याकाङ्क्षिकुमारस्याष्टाधिकस्तम्भशतसत्कप्रत्येकाष्टोत्तरशताश्रिधारानिरन्तरद्यूतजयवत् ४ । देशान्तरागतमहाश्रेष्ठिनि तत्पुत्रनानादेशीयवणिगृहस्तविक्रीतप्रभूतरत्नसमाहारवत् ५ । महाराज्यप्राप्तिहेतुचन्द्रस्वप्नदर्शनाकाङ्क्षि सुप्तकापटिकपुनस्तादृशस्वप्नलाभवत् ६ । मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तान्तरितराधावामलोचनवेधवत् ७ । आर्द्रचर्मोपमगाढशे| वालावनद्धमहाहृदराकानिशीथसमयप्रबलपवनोद्भूतैकच्छिद्रविनिर्गतकच्छपग्रीवोपलब्धनिशानाथतत्क्षणसंवलितसेवा| लपटलपर्यस्तितपुनस्तच्छिद्रलाभवत् ८ । अपारपारावारान्तर्वर्तिपूर्वापरान्तक्षिप्तयुगसमिला स्वयं छिद्रप्रवेशवत् ९ । ||११२||