________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० पतयः इन्द्रतुल्या वा-तत्सामानिकाः, ये किं ? ये ददति उपाश्रयं । तुशब्दः प्रहृष्टा इत्यस्यानुकर्षणार्थ इति ।।१९३|| ||१०१।।
साम्प्रतमैहिकामुष्मिकफलं सदृष्टान्तमाह
अवंतीसुकुमालो य, वंकचूलो नराहिवो ।
उप्पला गणिया चेव, दिह्रता एवमाइया ||१९४।। व्याख्या-'अवन्तीसुकुमालो य०' अक्षरार्थः सुगमः । अवन्तीसुकुमालस्य वङ्कचूलस्य 'उप्पल'त्ति भीमो भीमसेन इति न्यायात् पदेऽपि पदसमुदायोपचार इत्युत्पलमालेति दृष्टव्यम् ।
वसतिदानोपरि वङ्कचूलप्रबन्धस्त्वयम्
ढीपुरीति पुर्यां विमलयशोराज्ञः पुष्पचूलापुष्पचूलाख्यौ पुत्रीपुत्रावभूतां । पुष्पचलस्तु प्रकृत्योल्लण्ठत्वाल्लोकैPङ्कचूल इत्यभिधानं कृतं । तदौद्धत्यं महाजनादाकर्ण्य राज्ञा क्रोधेन नगरान्निःसारितो महारण्ये गतः । तस्य पत्नी
स्वसापि च स्नेहेन तदनुगते । भिल्लैः स स्वपल्ल्यां नीत्वा स्वभूपः कृतः । एकदा तत्र सिंहगुहापल्यां सूरयः प्रापुः । वर्षाकाले वसतिस्तत्पार्श्वे तैर्याचिता । वङ्कचूलः प्राह- 'मम सीमानं यावद्धर्मो न वाच्यः, मौनेनात्र स्थेयं । त ऊचुः'भवद्भिर्जीववधो न कार्यः' तेन स्वीकृतं । चतुर्मास्यन्ते विहारसमयस्तस्मै ज्ञापितः । यतः
समणाणं सउणाणं भमरकुलाणं च गोकुलाणं च । अनिआओ वसईओ सारईआणं च मेहाणं ||१|| ततो गच्छद्भिस्तैः सह कश्चित्प्रदेशं गत्वा स्थितः । सूरिस्तमाह हे भद्र त्वममुमभिग्रहं गृहाण, अज्ञातफलानि
PPPM
0000000000000000000000000000oooooooooooood HTTTTTTTTTTT
||१०१।।
For Private and Personal Use Only