________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥९१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दत्तं । धात्रीभिर्लाल्यमानो यौवनं प्राप्तः । तत्रत्य श्रेष्ठिभिर्द्वात्रिंशन्निजकन्यकास्तस्य परिणायिताः । ताभिः समं यथासुखं स रेमे ।
अथ श्रेणिकराज्ञः सोमश्री, शालिभद्रस्य स्वसा सुभद्रा, कुसुमपालस्य पुष्पवतीति पुत्र्य एकदिनजातत्वात् परस्परं सख्योऽभूवन् । आत्मभिः पतिरेक एव करिष्यत इति पुष्पवत्या सोमश्रियाः पुरः (उक्तम्), तया च राज्ञे विज्ञप्तम् । ततः श्रेणिकेन तिस्रोऽपि धन्यस्य परिणायिताः । धन्योऽपि भोगान् बुभुजे । स ताभिः सह गवाक्षे रममाणः पितरावद्राक्षीत् । तौ पितरावाकार्य सद्वस्त्राभरणैश्च भूषयित्वा सभार्योऽसौ प्रणनाम । कुतोऽत्रागमनं भवताम् । ताभ्यामुक्तं-`तव राज्यं श्रुत्वा ते भ्रातरस्त्रपमाणाः पुराद्बहिः स्थिताः सन्ति । ततो धन्योऽपि तेभ्यः पृथक् पृथक् ग्रामान् ददौ । गोभद्रोऽथ श्रीवीरपार्श्वे दीक्षामासाद्य स्वर्गलोकमवाप । प्राच्यपुण्यप्रकर्षाच्छालिभद्रस्य सोऽमरो वात्सल्यलालसोऽभूत् । ततस्तस्य प्रियायाः पादप्रोञ्छनार्थं भद्रया रत्नकम्बलग्रहणादि सर्वं प्रसिद्धमेव ।
इदानीमुद्याने धर्मघोषसूरिरागात् । तदुपदेशं श्रुत्वा संसारं त्यक्तुकामः 'भगवन् केन कर्मणाऽङ्गिनामन्यो स्वामी न स्यादिति ́ पृष्टे सूरिरुचे- ये दीक्षां गृह्णन्ति ते नाथाः सर्वदेहिनां भवन्ति । शालिभद्र इति श्रुत्वा व्रतं गृहीतुकाम: ``नैव प्रमाद्यमत्रार्थे' इत्युक्तः सूरिणा । ततो गृहें गत्वा निजाम्बामूचे । मातरहं व्रतं ग्रहीष्यामीत्युक्ते माताह-'वत्स ! दिव्यभोगैर्लालितस्त्वं, दुष्करं व्रतं कथं ग्रहीष्यसि ? तद्ग्रहणं तस्य श्रुत्वा सुभद्रा शालिभद्रस्य स्वसा धन्यपत्नी रुदती धन्येन पृष्टा सती वदति- 'मम भ्राता शालिभद्रः सौख्यानि मुक्त्वा व्रतेच्छुस्तुलनां कुर्वन्नस्ति
For Private and Personal Use Only
सूत्रम्
॥९१॥