________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥८२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबाहु १ भद्दनंदी य, २ सुजाय ३ वासव ४ तहेव जिणदासा ५ । धणवइ ६ महब्बला, ७ मद्दनंदि ८ महचंद ९ वरदत्ता १० ||१८०|| व्याख्या- 'सुबाहु०' सुबाहुवक्तव्यताप्रतिपादिका ग्रन्थपद्धतिः सुबाहवाख्यानकं । एवमन्यान्यपीत्यक्षरार्थः । भावार्थस्तु तच्चरितेभ्योऽवसेयः । तत्रेयं सुबाहुकथा
'अस्मिन् भरतक्षेत्रे हस्तिशीर्षनगरम् । तत्रादीनशत्रुनृपस्तस्य धारिणी राज्ञी । तयोः कियता कालेन सिंहस्वनसूचितः पुत्रो जातः । तस्य सर्वगुणसुन्दरत्वात्सुबाहु नाम दत्तम् । स पञ्चभिर्धात्रीभिः पाल्यमानो वर्धते । स कियता कालेनाध्यापकेनाध्यापितः । क्रमेण यौवनं प्राप्तः । पितृभ्यां वधूस्थानार्थं ५०० प्रासादकरणेन ५०० राजकन्याः पुष्पचूलाप्रमुखाः परिणायितः । सदापि विषयसुखं भुङ्क्ते । एकदा पुष्पकरण्डकोद्याने श्रीवीरे समवसृते, वर्धापने राज्ञाऽर्धत्रयोदशलक्षदाने दत्ते स स्यन्दनारूढो वन्दितुं गत्वोपदेशेन प्रबुद्ध्य श्राद्धधर्ममग्रहीत् । एष सुभगः सर्वजनेष्टः केन कर्मणेति गौतमेन पृष्टेऽस्य जीवेन प्राग्भवे हस्तिनागपुरे सूक्ष्मव्यवहारिगृहस्थेन तत्रागतः ५०० साधुपरिवृतः धर्मघोषाचार्यशिष्यः सुदत्तर्षिः प्रहृष्टेन विधिना मासक्षपणपारणे प्रतिलाभितो, भोगफलं कर्मोपार्जितम् । तावा पञ्चदिव्यानि प्रकटीभूतानि । दुन्दुभिः १ चेलोत्क्षेपो २ हिरण्यवृष्टिः ३ पञ्चवर्णा पुष्पवृष्टिः ४ सुदानं सुदानमिति देववाणी ५ एवंविधानि ५ दिव्यानि जातानि । तदा तत्र मिलितराजादिबहुलौकैः प्रशंसितः । सूक्ष्मो व्यवहारी मृत्वा सौभाग्यादिगुणयुतोऽयं सुबाहुनामा जातो । भगवन्नयं चारित्रं लास्यतीति गौतमेन पुनः पृष्टे लास्यतीत्यवादीद्वीरः ।
For Private and Personal Use Only
सूत्रम्
॥८२॥