________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४२८ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लोन स्यात्फलेग्रहि ॥ ५८ ॥ तयोचे तत्कियन्मात्रं । याचसे साप्यवोचत || ददातु सांप्रतं मेऽई-लक्षं प्रगुणताकृते ||५|| एत्वर्धलक्षमादाय । पंचमेऽह्नि पुनः स्वयं ॥ पूरयामि यथा पूर्णा - मस्य कांचित्सुखालिकां ॥ ६० ॥ न्यवेदयदशोकाय । मुदिता दूतिकापि तत् ॥ तद्दत्त-मईलकं च । शीलवत्याः समार्पयत् ॥ ६१ ॥ ततोऽपवरकस्यांतः । सुबुद्धिः शीलवत्यपि ॥ प्रछन्नं स्वनरैर्गर्त्ता । खनयामास मांसलां ॥ ६२ ॥ सोत्तरचदमव्यूतं । पर्यकं तदुपर्यधात् ॥ पंचमेऽह्नि ततः सोऽ६ - लक्षमादाय सोन्मदः ॥ ६३ ॥ तांबूलहस्तः सौभाग्या-न्मन्वानस्तृणवज्जगत् ॥ समेत्योपविशंस्तत्र । गततः सहसाऽपतत् ॥ ६४ ॥ रज्जुबधशरावेण । ददती नोजनोदके ॥ नरको जीवमिव । तं तत्राऽस्थापयत्सती ॥ ६५ ॥
मासमात्रे व्यतिक्रांते । राजाख्यन्नर्ममंत्रिणः || सिद्धार्थः किमसिद्धार्थो । नाऽशोकस्तावदागतः ॥ ६६ ॥ भूपेन तावदादिष्टो । वितीर्य इविणं ततः ॥ रतिकेलिचिकीस्तस्यां । रतिकेलिरुपागमत् ॥ ६७ ॥ तयैकलक्षमादाय । सोऽपि तत्रैव पातितः ॥ बुद्धेर्हि सुप्रयुक्तायाः | किमसाध्यमपि कचित् ॥ ६८ ॥ एवं लक्षमुपादाय । तौ प्रत्येकमुज्जावपि ॥ कामांकुरल लि
For Private And Personal
वृत्ति
॥ ४२८ ॥