________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
112411
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वागतः ॥ २६ ॥ दृष्ट्वा विभूषितां कन्यां । महिषी हर्षनिर्जरा ॥ तं देवेंादिसंपातं । सविस्मयतयाऽस्मरत् ॥ २७ ॥ श्राकर्ण्य कुंननूपोऽपि । तत्सर्वं मुदिताशयः ॥ पुत्रेभ्योऽप्यधिकं तस्या । जन्मोत्सवमचीकरत् ॥ २८ ॥ सप्तांगेष्वपि राज्यस्य । दृष्ट्वा वृद्धिमनुत्तरां ॥ - जन्मनि प्रभूतानि । तुष्टिदानान्यदापयत् ॥ २५ ॥ नवगुप्तेरसावेव । ध्रुवं मुक्तिं करिष्यति ॥ इतीव सूनृतादिष्टः । कारामोक्षस्तदाऽखिलः ॥ ३० ॥ युक्तं कुंजनृपोऽकार्षी- निर्देशां पृraj तदा ॥ यन्मोक्षति वर्द्धमाना | दंड त्रयमसावपि ॥ ३१ ॥ वृद्धिहेतुरसावेव । कन्या सकलसंपदां ॥ इतीव सर्वमानानां । वृद्धिमाज्ञापयन्नृपः ॥ ३२ ॥ एषैव मोहनिशयाः । कर्त्री जागरण क्रियां ॥ इतीव कारयामास । षष्टीजागरणोत्सवं ॥ ३३ ॥ एकादशाहे सन्मान्य । ज्ञातिवर्ग महर्द्धितः ॥ माल्यदोहदतश्चक्रे । तस्या मल्लिरिति प्रथां || ३४ ॥ देवी जिलब्यमा| मनोवांछित लिभिः ॥ ववृधे कल्पवल्लीव | नंदनोद्यानमध्यगा || ३५ ॥ कर्मकयोपशमाच्या - मुपाध्यायाऽनपेक्षया ॥ आविरासन कलाः सर्वा - स्तस्या न्यासीकृता इव ॥ ३६ ॥ पंचविंशतिचापच्चा । पुण्यलावण्यनिर्जरा ॥ श्री मल्लिः प्राप तारुण्यं । ज्ञानत्रयपवित्रिता ॥ ३७ ॥
I
For Private And Personal
वृत्ति
॥ १५॥