________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥२०५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पूर्ववत् ॥ २५ ॥ सीमादेशजनोऽन्येद्युः । श्रीश्रीषेणं व्यजिज्ञपत् || गिरौ विशाल शृंगेऽस्ति । श्री शिशिरा नदी ॥ २६ ॥ पलीशः समरकेतु-स्तत्र दुर्गबली बली ॥ युष्मद्देशस्य लक्ष्मींस । विलुंटति सुदुर्ग्रहः ॥ २७ ॥ श्रुत्वेत्यश्रव्यमव्याज - प्रतापतपनोपमः ॥ तत्रिग्रहचिकी राजा | यात्राढक्कामवीवदत् ॥ २८ ॥ कुमारो विक्रमल्लास - केसरी नृपमब्रवीत् ॥ लीशमात्रे कस्तात । संरंजः क्रियते स्वयं ॥ २७ ॥ तुष्टेन राज्ञादिष्टोऽथ । सैन्याच्छादितन्नू - तलः ॥ कुमारः शंख इत्याख्यः । पल्लीसीमानमासदत् ॥ ३० ॥ अथो पलाय्य पल्लीशे । 5
मुक्त्वाऽन्यतो गते || युवराजोऽपि नीतिज्ञः । स्वयं कुंजे न्यलीयत ॥ ३१ ॥ सारसैन्यजुषा स्वीय सामंतेन स मंत्रवित् ॥ गाढं पल्लीपतेर्दुर्गं । सुगृहीतमकारयत् ॥ ३२ ॥ रे रे गृह्णीत गृह्णीत | शंखं जीवंतमेव हि ॥ इत्यादिशन जटान पल्ली - पतिर्गाढमढौकत ।। ३३ ।। कुमारोऽपि महासारो | दुर्गस्थैः स्वबलैः समं ॥ कर्मनिः स्वमिव प्राणी । परितस्तमवेष्टयत् ॥ ॥ ३४ ॥ तथाऽजितो गृहीतः क्का - प्यवकाशमनाप्नुवन् ॥ न्यस्य कंठे कुठारं स । कुमारं शरणं ययौ || ३५ || योपलक्षितं लोप्तं । दत्वा सीमांतवासिनां ॥ दुर्गे मुक्त्वा स्वसामंतं ।
૧૪
For Private And Personal
वृत्ति
॥ १०५ ॥