SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ rammmmmmmmmmmmmmmm.......nxs wwwmarawwwwmanar. परिशिष्ट । श्रीचित्रकूटः सुरशैलतुल्यः ॥३॥ विशालसालक्षितिलोचनाभो रम्यो नृणां लोचनचित्रकारी । विचित्रकूटो गिरिचित्रकूटो लोकस्तु यत्राखिलकूटमुक्तः ॥ ४ ॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिमो नृपः ।। वैरिवर्गः समुद्रो हि येन पीतः क्षणारिक्षतौ ॥ ५ ॥ [ त ] पुत्रो राजमल्लोऽभूद्राज्ञां मल्ल इवोत्कटः । सुतः सङ्ग्रामसिंहोऽस्य सङ्ग्रामविजयी नृपः ॥ ६ ॥ तत्पट्ठभूषणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ॥ ७ ॥ इतश्च गोपाहगिरौ गरिष्ठः श्रीवप्पभट्टीप्रतिबोधितश्च । श्रीआमराजोऽजनि तस्य पत्नी काचित्बभूव व्यवहारिपुत्री ॥ ८ ॥ तत्कुक्षिजाताः किलराजकोष्ठा गाराहगोत्रे सुकृतैकपात्रे । श्रीओशवंशे विशदे विशाले तस्यान्वयेऽमी पुरुषाः प्रसिद्धाः ॥ ९ ॥ श्रीसारणदेवनामा तत्पुत्रो रामदेवनामाऽभूत् । लक्ष्मीसिंहः पुत्रो ( त्रस्) तत्पुत्रो भुवनपालाख्यः ॥ १० ॥ श्रीभोजराजपुत्रो ठकुरसिंहाख्य एव तत्पुत्रः । षेताकस्तत्पुत्रो नरसिंहस्तत्सु.................. ॥ ११ ॥ तत्पुत्रस्तोलाख्यः पत्नी तस्याः (तस्य) प्रभूतकुलजाता । तारादेऽपरनाम्नी लीलूः पुण्यप्रभापूर्णा ॥ १२ ॥ For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy