________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ६२ ॥
25252525
www.kobatirth.org
|| श्री नगाधिराजोपरि निर्जरकथा ||
एत्य स्वयम्प्रभो देवः शत्रुजमहीधरं । ददौ नगाधिराजेति नाम भूपभुर्साक्षिकम् ॥ १ ॥ तथाहि स्वर्गेऽन्यदा हरिः प्राह सभायां भुवनत्रये । शत्रुज्जयसमं तीर्थं विद्यते नहि कुत्रचित् ॥ २ ॥ तदा स्वयम्प्रभो देवो जगावेवं हरेः पुरः । प्रभुत्वात् प्रभुणा यद्यद् जल्प्यते तद्धि मन्यते ॥ ३ ॥ इन्द्रोऽव सर्वतीर्थेभ्यस्तीर्थे शत्रुञ्जये गिरौ । पदे पदे शिवं जग्मु-रसख्याता मुमुक्षवः ॥ ४ ॥ तीर्थेऽन्यस्मिंस्तपोदानादिभिर्यद् जायते वृषम् । ततः शत्रुञ्जयेन तं फलं भवति निश्वितम् ॥ ५ ॥ सर्वशाश्वतीर्थेषु विलोकयन् स्वयम्प्रभः । ददर्शाल्पान् शिवं यातांस्तीर्थेषु कृत्रिमेष्वपि ॥ ६ ॥ ततः शत्रुञ्जये याव-दायातः स सुरो भ्रमन् । तावन्मुक्तिययुर्लक्ष - मिता वाचंयमा लघु ॥ ७ ॥ द्वितीये दिवसे कोटि- मिता वाचंयमाः किल । तृतीये दिवसे पञ्च सहस्रप्रमितान् यतीन् ॥ ८ ॥ चतुर्थेऽह्नि शतं पञ्च - साधून् षष्ठे यतीन् दश । सप्तमेऽष्टौ शतान्यष्ट-विंशतिः षड् दिनेऽष्टमे ॥ ९ ॥ एवं दिने दिने मुक्ति यातोऽसङ्ख्ययतींस्तदा । दृष्ट्वा स्वयम्प्रभा देवो जगादेवं नृणां पुरः ॥ १० ॥ असङ्ख्यस्त्रीनृणां मुक्ति-गमनादस्य भूभृतः । नगाधिराज एषोऽस्तु पर्वतः सुकृतास्पदम् ॥ ११ ॥ ततोऽन्यैर्मनुजैर्देवै-भूपैर्वाचंयमैरपि । नगाधिराजनामाय - मिति घुष्टं तदाऽभितः ॥ १२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
SASASASASAS52525252525252
॥ ६२ ॥