________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmmmmmmmmmmmmm
शत्रुञ्जय कल्पवृ०
श्रुत्वैतन्नृपतिः प्राह जीवो नैको मया क्वचित् । हन्तव्यश्च विधातव्यं तपः षष्ठं निरन्तरम् ॥ २६ ॥ गोरूपादिककृद् देवी नत्वा भूपं तदा जगौ । अहं ते भगिनी पूर्व-भवभूता नरेश्वर ! ॥२७॥ बोधितोपि मया नैव बुद्धस्त्वं भूमिभुम् यदा । तदोत्पाटयेह सिद्धाद्रौ नीतो जानीहि साम्प्रतम् ।। २८ ।। भूपोऽभ्येत्य पुरे स्वीये भूरिसङ्घसमन्वितः । शत्रुञ्जये पुनर्यात्रा-कृते कुटुम्बयुग् ययौ ॥ २९ ।। अष्टयुग्शतकूटेषु तालध्वजादिषु क्रमात् । गच्छतः संयतान् भूरीन मुक्तिं ददर्श भूपतिः ॥३०॥ तेषु कटेषु सर्वेषु प्रत्येकं श्रीजिनालयान् । कारयित्वा नृपः सार्व-बिम्बान्यस्थापयन्मुदा ॥३१॥ अष्टोत्तरशतकूट पर्वतोऽयं निगद्यताम् । जगादेति नृपः सर्व-लोकभूमिभुजां पुरः ॥ ३२॥ ततोऽभ्येत्य पुरे स्वीये राज्ये न्यस्य निजं सुतम् । दीक्षां वीरमहीपालो जग्राह गुरुसन्निधौ ॥३३॥ . प्राप्तसूरिपदो भूरि-साधुयुग् वीरमरिराट् । शत्रुञ्जये गतो ज्ञानं प्रपेदेऽनुत्तरं तदा ॥३४॥ लक्षत्रयमुमुक्षणां तत्र सिद्धमहीधरे । उत्पन्नं केवलज्ञानं वीरसूर्युपदेशतः ॥३४॥ . . वीरभूमिपतिर्लक्ष-त्रयसाधुसमन्वितः । अलश्चकार कल्याण-पुरी सिद्धमहीधरे ॥३५॥
॥६
॥
SSESESESESISESSESEISSESISE
SS2552SSTS2G255SS252525
-
----
-
-
-
--
----------
---
-
%
For Private and Personal Use Only