________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
* प्रान्ते च प्रार्थये समधिकपवित्र परमाणुपुञ्जमय-श्रीशैलेन्द्रनगाधिराज-श्रीशत्रुञ्जयस्य तीर्थस्य महिमव्यावर्णगर्भस्य कल्पस्यैषा भूरिप्रथितैतिह्य चरितकथासन्दर्भात्मिकां सुविसदतरां वृति सम्प्रधार्य सुरुचिपूर्व भावोल्लासवृद्धये एतद्वाचनादि समुपयुज्य समेऽपि भव्यजीवाः कल्याणपथगामिनो भवेयुरिति शुभाशंसापूर्व प्रचुरपुण्यसन्दोहलभ्यस्य विमलादेरेतस्य लघुकल्प-व्यावर्णनस्वरूपस्य ग्रन्थस्य "प्रास्ताविक” लिखनसौभाग्यं वात्सल्यबारानिधि प्रशमपयोनिधि पूज्यतमगच्छाधीश्वरप्रेरणया सहृदयिजनोत्तंस विद्वन्मतल्लिका श्रीलाभसागरगणिवरैः सम्पादिमिति च भूयो भूयोऽनुमोदये पतादृशं स्पृहणीयसेवाऽवसरप्राप्त्या शासनपद्धत्याकर्मनिर्जरापथि समुत्सर्पणलाभाधिगत्येति विनिवेदये क्षयोपशमवैचित्र्यमूलक-स्वस्खलनासम्बन्धि मिथ्यादुष्कृतदानपूर्व पूज्यागमोद्धारकाचार्यश्रीपट्टविनेयश्रीसिद्धचक्राराधनतीर्थोद्धारक-वैयाकरणकेशरी स्वर्गताचार्यश्रीचन्द्रसागरसूरिवर-श्रीपरमविनेयशान्तमूर्ति-तपस्वीधुरीण शासनसंरक्षक सुगृहितनामधेयतारकवर्य-पूज्यगुरुदेवोपाध्याय श्री धर्मसागरजिन्महाराज-चरणारविन्दमिलिन्दायमानोऽभयाब्धिः श्रमणसङ्घसेवकः इति ॥ जैन उपाश्रयः इन्द्रपुर (इन्दोर) (म. प्र.)
शुभं भूयात् सर्वजीवानाम् वीर नि. सं. २४९६, वि. सं. २०२६
म
a
For Private and Personal Use Only