________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
कोटीकोटियतीशानां तत्र ध्यानं वितन्वताम् । बभूव केवलज्ञानं तदा विश्वावलोककम् ॥ ७ ॥ तत्र तेषां क्रमादायुः क्षयान्मुक्तिरजायत । सिद्धोत्सवः सुरैश्चक्रे गीतनृत्यपुरस्सरम् ॥ ८ ॥ यत्र स्थाने गता मुक्ति साधवश्वायुषः क्षयात् । कोटाकोटयभिधं सम्र तत्र व्यधाद् भगीरथः ॥९॥ अजितस्वामिनं मूल-नाथं तत्र जिनालये । सगरस्याऽऽदिमः पुत्रोऽतिष्ठिपत् रुचिरोत्सवम् ॥१०॥ प्रासादमादिदेवस्य कारयित्वा भगीरथः । विम्ब रत्नमयं पञ्च-कोटिस्वर्णरतिष्ठिपत ॥११॥ तीर्थरक्षाकृते दण्ड-रत्नेन मेदिनी क्रमात् । खनित्वाऽधिप्रवाहं तु तत्रानयद् भगीरथः ॥ १२ ॥ तदा तत्र समेत्येन्द्रः प्रोवाच भो ! भगीरथ ! अधिना वेष्टिते तीर्थे नन्तुं को जन एष्यति ? ॥१३॥ भगीरथः सुरेशेन बारितो नाग्रतोम्बुधिम् । अनैषीत् सलिलं तत्रा-द्याप्यब्धौ दृश्यते जनः ॥१४॥ तेनेन्द्रदिशि पाथोधि-जलं तीर्थस्य तस्य तु । वेष्टयित्वा स्थितं स्तम्भ-तीर्थ यावनिरन्तरम् ॥१५॥ भगीरथस्ततस्तीर्थे गत्वा श्रीऋषभप्रभोः । भगीरथाभिधं सार्व-सद्म भगीरथो व्यधात ॥१६॥ ततो देवा ददुस्तत्रा-ऽऽगतास्तीर्थस्य तस्य तु । भगीरथेति नामाऽभून् नानोत्सवविधानतः ॥१७॥ भगीरथोऽपि निश्शेषकर्म क्षिप्त्वा तपोबलात् । शत्रुञ्जये ययौ मुक्ति तथाऽन्येऽपि महीधराः ॥१८॥
॥ ५३॥
SELEASESSISESESSELSSELSEE
BESESSISEASESSESESSISSELSES
For Private and Personal Use Only