________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय |
कल्पवृ०
11:48 11
12525525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्री सहस्रपत्रनामोपरि सहस्रपत्रकुमारकथा ॥
यतेः सहस्रपत्रस्य केवलज्ञानछत्सवम् । कुर्वन् शम्रो ददौ नाम सहस्रपत्र इत्यपि ॥ १ ॥ रमापुरे महाजिष्णु-भूपतेः श्रीमती प्रिया । सहस्रपत्रः पुत्रोऽभूद् विनीतः कोविदोत्तमः ॥ २ ॥ सभायां मेदिनीशस्य पुरतो दूत एककः । समागस्य प्रणम्याघ्री लेखमेकं समर्पयत् ॥ ३ ॥ उत्खल्य मुद्रितं लेखं भूमीपतिः शनैः शनैः । वाचयामासिवानेवं स्वयं मन्त्रिसमन्वितः ॥ ४ ॥ वीरपुर्यामहं भूपो रोधनी (सु) कनीकृते । माघस्य श्वेतपञ्चम्यां शुक्रस्य वासरे वरे ॥ ५ ॥ मण्डपियामि रोचिष्णु-सत् स्वयं वरमण्डपम् । शीघ्रं तत्र समागम्यं भवद्भिर्विशदाशयैः ॥ ६ ॥ युमग्म् ॥ वाचयित्वा तदा पुत्रं मनोरमपरिच्छदम् । प्रेषयामास भूपाल: शोभने वासरे क्रमात् ॥ ७ ॥ तत्र दूत्या महीशानां बहूनां कीर्त्तने कृते । वृणुतेस्म महीभुग्भूः सहस्रपत्रमादरात् ॥ ८ ॥ तदा तत्राssगता भूषाः शतद्वयमिता वराः । एकैकां कन्यकां तस्मै महाजिष्णुर्भुवे ददुः || ९ || restrङ्गादि प्राप्य जिष्णुतनूभवः । आययौ स्वपुरोद्याने यावत् तादृकप्रियायुतः ॥ १० ॥ तावत्तत्राऽऽगतो मोह-मर्द्दनाभिध केवली । उपविष्टः सुवर्णाज्जे प्रददौ धर्मदेशनाम् ॥ ११ ॥ युग्मम् * क्ष्मामृद्रङ्ककयोर्मनीषिजडयोर्नीरोग रोगार्त्तयोः, श्रीमदुर्गतयोर्बलाबलवतोः सद्रूपनीरूपयोः । क
For Private and Personal Use Only
52552525252525252525252521
॥ ५४ ॥