________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18)
यात्रातुल्यलाभस्य प्राप्तावपि तीर्थोत्तंसस्य सिद्धक्षेत्रस्यैतस्य पवित्रगिरिराजस्य विशदतरमहिमानभिज्ञबालजीवानां संक्षिप्तगाथापद्धतिना बीजकरूपेण प्रथितस्य श्रीविमलाद्रेः सातिशय सप्रभावं माहात्म्यं यथावत् वुद्धिगम्यं स्यात् , येन च जनिमृतिविषमचक्रेऽवस्थितिमूलभूतकर्मबीजसन्तानोच्छेदाय गिरिराजस्य विमलाद्रेः यथार्थाभिधानस्य सद्भूतं गुणगरिमाणमवगम्य भावोल्लासेनैतत्तीर्थस्पर्शन-दर्शन-वन्दनअर्चा-पूजा स्मरणादिप्रकारैः विविधमुद्यच्छेयुः स्वात्मशुद्धिलक्ष्यं च सफलयेयुरितिहेतोः तपागच्छाधिराज-श्रीयुत-सहस्रावधानिरिसत्तमश्रीमुनिसुन्दरसूरिशिष्यैः नैककथाप्रबन्ध-चरित्रग्रन्थादिप्रणेतृभिः श्री शुभशीलगणिभिः लघुकल्पस्यैतस्य गाथानां प्रतिपदं व्याख्यात्मकं मन्दबुद्धितत्त्वज्ञानबोधनेऽपटुबुद्धिमतां हिताय च सरसैतिह्य-सत्यघटनारूपविविधपुण्यशालि-जीवदृष्टान्तबहुलतासनाथं विवरणं ब्रह्मचर्यभेद (१८) कर्मभूमिप्रमित (३५) वैक्रमेऽडदे बालजीयानां प्रबोधायाऽकारि ।
महाकायश्चैषग्रन्थः नाद्यावधिमुमुक्षूणां वाचनश्रवणगोचर आसीदिति विभाव्य प्राचीननैकहस्तलिखित सङ्ग्रहानवलोक्य विविधप्रती: गवेषय्य सुगृहित-नामधेयाऽऽगमतलस्पर्शिमर्मज्ञप्रौढ प्रतिभोदेकविराजिताऽऽगमवाचनादायक-ध्यानस्थ स्वर्गताऽऽचार्याऽऽगमोद्धारकापराहश्री आनन्दसागरसूरीशैरेतद्ग्रन्थस्य सुतरां सम्यग्दर्शननिर्मलताऽवन्ध्यबीजस्य श्री सिद्धाचलतीर्थाधिराजसन्महिमख्यापकस्यग्रन्थराजस्य योग्यस्वच्छप्रतिलिपिः भूयसा श्रमेण विविधागम-साहित्यमुद्रापणशिला-ताम्रपत्रोत्कीरण-व्याख्यान-विवेचनादिकार्यजाते ब्यापृतत्वेऽपि तीर्थाधिराजमहिमानं विविधकल्मषक्षालनप्रभविष्णु विभाव्य स्वपरोपकराय कारिताऽऽसीत् । सा च सूर्यपुरीयाऽऽनन्दपुस्तकालयसमपूज्याऽऽगमोद्धारकाचार्य श्री श्रुतभक्तिस्मारक-विपुलतमसङ्गहे सुरक्षिताऽऽसीत् ॥
परमेतस्याः प्रकाशनं तु काललब्धिसापेक्ष एवं हि सञ्जातं यत् पूज्यपादागममर्मज्ञाऽऽचार्यश्री (आनन्दसागरसूरीणां) जन्मना नवावृत्तिकार श्रीमदभयदेवसूरीश्वरस्वर्गवासेन च परिपूत श्रीकर्पटवाणिज्यद्रले यतिधर्म-(१०) तत्पालनरूपेण च परित्यज्यमानहिंसाया
For Private and Personal Use Only