________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmm
m
शत्रुजय कल्पवृ०
॥५२१॥
252SSISTESS52525252525
हसित्वैका सखी जगौ-एषा परिणीतात्मनो नोपलक्षिष्यति इत्यादि, । इतो नेमिः समागच्छन् पशून् करुणसंरवान् । श्रुत्वा सारथीमप्राक्षी-देते के पशवो बद ? ॥ ५९९ ।। सारथिः प्रोक्तवान् पाणि-पीडने ते शिवाङ्गज ! । यदूनां गौरवायैते पशवो मेलिता यथा ॥ ६०० ॥ छागी छग हुडा हुडी ललायुगण्डकः किरिः । भल्लूकोऽपि च जम्बूको मर्कटो हरिणो हरः ॥६०१ ॥ कलापो बर्हिणः काक पुष्टः सकृत्प्रजः पुनः । मद्गुर्वनाश्रयो घूक-स्ताम्रचूडः सितच्छदः ॥६०२ ॥ चरटा खञ्जरीटश्च खञ्जरीट: सलक्षणः । क्रौश्चः किकिदिवश्चक्र-वाकश्चवुटकइचुटी ॥६०३॥ दात्यूहश्च बकोटच कूररः शारिकस्तथा । पारापतः शकुन्तश्च गुञ्जलो विषसूचकः ॥ ६०४ ॥ तित्तिरं कुम्भकारश्च हारीतो मरुलस्तथा । इत्याद्या पशवोऽनेके मेलिताः सन्ति साम्प्रतम् ॥६०५॥ स्वं स्वं मोचयितुं ह्येतान् पशून् प्रजल्पतः सतः । नेमि त्वा जगौ सूत ! स्थं वालय सत्वरम् ॥ ६०६॥ तदलं बन्धुवर्गस्य स्नेहेन विषयेन मे । प्रस्थितस्य शिवागारे जीवहिंसाऽर्गला स्मृती (तेनैव पापात्मनः) ॥६०७॥ छोटयित्वा पशून् सर्वान् बन्धान सारथिपातः । नेमिः स्वस्यन्दनं सद्योऽवालयत् सूतपार्श्वतः ॥६०८॥ नेमि व्यावर्तितरथं दृष्ट्वा तदा यदूत्तमः । समुद्रविजयो माता शिवा गोप्योऽखिला जगुः ॥६०९ ॥ वत्स ! स्वच्छाऽधुना मा त्वं रथं पश्चाच्च वालय । परिणीय वधू हर्ष-मस्माकं कुरु शीघ्रतः ॥६१०॥
eanmummmmmmm
ESLISSESES25525515:52ST
%
॥५२१॥
For Private and Personal Use Only