________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
कल्पवृ० ॥५१३॥
SESTESISESTERASPISESTI
मणी चक्रं धनुः खड्गं वनमाला गदा पुनः । शङ्खश्चेत्यभवद्रत्न-सप्तकं कमलापतेः ॥५१०॥ अथ नेमिः सदा तुल्यैः कुमारैनिर्जरोपमैः । सार्द्ध वितनुते क्रीडा-मुद्यानादिपु सन्ततम् ॥५११ ॥ रममाणोऽन्यदा कृष्णा-युधशालान्तरे प्रभुः । गतो गदां शये यावल्लातु-कामोऽभवल्लघु ॥५१२ ॥ तावदायुधपालोऽवग् गदामेनां विना हरिम् । नैवोत्पाटयितुं कोऽपि नरो वा नृपतिः प्रभुः ॥५१३ ॥ एवं जल्पति तस्मिंश्च गदामुत्पाट्य लीलया । भ्रमयामास शीर्षस्या-भितो नेमिः शिवाङ्गजः ॥५१४ ॥ तदैवायुधपालेन वार्यमाणः प्रभुस्तदा । कुलालचक्रवच्चक्रं नेमिरभ्रामयत्तदा ॥ ५१५ ॥ ततश्चायुधपालेन वार्यमाणः प्रभुभृशम् । चटयित्वा धनुश्चक्रे टणत्कारं मुकुन्दवत् ॥५१६॥ ततश्च वार्यमाणोऽपि शस्त्रपालेन ततक्षणात् । खड्गमुल्लालयामास पतन्तं च करे दधौ ॥ ५१७॥ ततश्चायुधपालेन मुकुन्दादधिकारवम् । वार्यमाणो भृशं स्वामी शङ्खमापूरयद् दृढम् ॥ ५१८ ॥ शङ्खवादेन मातङ्गा रज्जूरत्रोटयन दृढाः । तुत्रोटुर्गिरिशृङ्गाणि कम्पमापवसुन्धरा ॥ ५१९ ॥ उत्कल्लोलेनाभवाद्धिः प्लावयन् वसुधातलम् । आवासा भित्तयस्त्रोटं त्रोटंपेतुर्दृढा अपि ॥५२०॥ युग्मम् ।। * उक्तश्च-"चक्रं येन कुलालचक्रवदंगुल्या भृशं भ्रामितं, सारङ्गं च धनुर्मृणालबदलंयेन स्वयं नामितम् ॥5 विष्णोरप्यसमं श्रमभ्रमकरी कौमोदकी यष्टिवद् , येनोत्पाट्य निजं तदा भुजतरौं शाखाश्रियं प्रापिता ॥१॥
TESENSSSSSSSSSSSSS
onainmewimwwwindiamommmmmmmmmmmmons
॥५१३॥
For Private and Personal Use Only