________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
SESSTSEE52SISSES25252
मुनिः प्राह भवादस्माद् द्विपश्चाशत्तमे भवे । भवतोदालितं यस्य ललौ स धरणीधरः ॥१७८ ॥ यस्यात्र क्षणतो ज्ञानं विश्वविश्वावलोककम् । उत्पत्स्यते तमेव तं भूपं जानीहि भूपते ! ॥१७९ ।। चन्द्रशेखरराजर्षेः केवल्युत्सवमादरात् । मुहूर्तात् कुर्वतो देवान दृष्ट्रा जज्ञौ रिपुतकम् ॥ १८ ॥ ततस्तत्र समेत्याऽऽशु क्षमयित्वाऽतिभक्तितः । शुकोऽपि श्लाघयामास ज्ञानिनं चन्द्रशेखरम् ॥ १८१ ।। यात्रां विस्तरतः कृत्वा शुको भूपो निजे पुरे । समेत्य स्वीयपुत्राय राज्यं दत्त्वा व्रतं ललौ ॥१८२ ॥ सहस्रद्वितय भूपाः सामान्याः स्वामिभक्तितः । जगृहुः संयम ज्ञानि-पार्वे विशदमानसाः ॥ १८३ ॥ पालयन् निरतीचारं चारित्रं शुकसंयतः । शत्रुञ्जये ययौ तुर्य-तीर्थेशसमये क्रमात् ॥ १८४ ॥ सर्वकर्मक्षयात् प्राप्य ज्ञानं शुकयतीश्वरः । कोटिसाधुयुतो मुक्तिं ययौ सिद्धमहीधरे ॥१८५ ।।
इति शत्रुजयनामोपरि शुकभूपकथा संक्षेपादुक्ता. विस्तरात मत्कृतविक्रमार्कचरित्राद् ज्ञातव्या
श्री सिद्धक्षेत्रनामोपरि दण्डवीर्यनृपकथा ॥ त समं भूरिनृसङ्घातान् सिद्धान् वीक्ष्य सुमानसः । दण्डवीर्यो ददौ नाम सिद्धक्षेत्रेति तस्य तु ॥१॥
अयोध्यायां पुरि श्रीमन्नाभेयस्यान्वये क्रमात् । जलवीर्यनृपस्याभूद् दण्डवीर्याभिधः सुतः ॥२॥ दिग्यात्रां कुर्वता तेन भुवः खण्डवयं क्रमात् । तथाऽसाधि यथा सर्वे तस्यासन वशगा द्विषः ॥३॥
25SESESES22SES2SSESSES25
३३॥
For Private and Personal Use Only