________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
-
SESE
m
m
शत्रुञ्जय कल्पवृ०
॥३२॥
SESSOSSESSESSES
यदा तस्यां गुहायां तु तेजः स्फुरति सर्वतः । तदा यास्यत्यरिनष्ट्वा करे ते राज्यमेष्यति ॥१६५ ॥ नत्वा तातं शुको गत्वा सिद्धशैले गुहान्तरे । स्थित्वाऽऽदिमं जिनं चित्ते दध्यौ तातोक्तयुक्तितः ॥ १६६ ॥ तेनोक्तविधिना सर्व स्मरतस्तस्य तत्र तु । षष्मासान्तेऽस्फुरत्तेजो गुहायां सर्वतो बहु ॥१६७ ॥ इतश्चन्द्रो निजं रूपं निरीक्ष्य प्रकटं रहः । मृत्युभीतो निजं स्थानं तरसा समुपागमत् ॥१६८ ॥ शुकस्तु स्वपुरेऽभ्येत्य पत्नीद्वययुतस्तदा । निजं राज्यमलश्चक्रे नानोत्सवपुरस्सरम् ॥१६९ ॥ एत्य मन्त्र्यादयो लोकाः प्रणम्य भूपतेः पदौ । भक्त्या निजापराधं तु क्षमयामासुरञ्जसा ॥ १७०॥ ततो भूपो बहुं सङ्घ भूरिभूपसमन्वितः । गत्वा सिद्धगिरौ स्नात्रा-द्युत्सवं निखिलं व्यधात् ॥ १७१ ।। ततो राजा जगी भूरि-भूभुजामग्रतस्तदा । ममाऽस्मात् तीर्थमाहात्म्यात् जयः शत्रोरजायत ॥१७२ ॥ अतोऽस्य भूभृतः शत्रुञ्जयेत्याहा विधीयते । भूपैरुक्तं तवाभीष्टं नामास्याऽस्तु नरेश्वर ! ॥१७३ ।। अयं शत्रञ्जयः शैलो घोषयन्नभितो नृपः । सप्तक्षेत्रे धनं भूरि व्ययति स्म सदुत्सवम् ।। १७४ ।। इतस्तत्राऽऽगतश्चन्द्र-शेखरः प्रथमं जिनम् । नत्वा दध्यौ मया पापं कृतं दुर्गतिदायकम् ॥ १७५ ।। ध्यात्वेति संयम पार्थे महोदयमुनेस्तदा । लात्वाऽऽत्मना भृशं निन्दन् चन्द्रश्चिक्षेप पातकम् ॥ १७६ ॥ शुकोऽप्राक्षीत् गुरूपान्ते कृत्वा मद्र्पमत्र तु । येन राज्यं लले तस्य नाम साम्प्रतमुच्यताम् ।। १७७ ॥
ISUSTSZSSRSZESE52552SSESE
For Private and Personal Use Only