________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥५०१॥
ESESE2525252525252SSIST
आभीरीरूपभृज्जाम्बु-वत्याऽऽभीरोऽभवद्धरिः । तौ गतौ नगरस्यान्तर्दधिविक्रयदम्भतः ॥३५९ ॥ दृष्ट्वाऽऽभीरी जगौ शाम्ब इहैहि लामि ते दधि । इत्युक्त्वा तां बलानीन्ये शून्यगेहान्तरे स च ॥३६० ॥ तदा जाम्बुवती लक्ष्मी-पतिभ्यां प्रकटीकृते । स्वरूप चानशच्छाम्बो लज्जितः स्थगिताङ्गकः ॥३६१ ।। जगौ जाम्बुवती कृष्णः सूनोः कृत्यं त्वयेक्षितम् । वरं सौम्यं सुतं सा ही मन्यते क्रूरमप्यहो ।। ३६२ ।। द्वितीयेऽह्नि बजन शाम्बो हस्तात्तकीलको जगौ । वृत्तं यो ह्यस्तनं मेऽत्र वक्त्याऽऽस्येऽस्य क्षिपाम्यमुम् ॥३६३॥ श्रत्वैतद्वचनं तस्य रुष्टः कृष्णो जगौ तदा । स्वेच्छाचरण रे शाम्ब ! मा तिष्ठाऽत्र पुरे मम ॥३६४ ॥ शाम्बः प्रद्युम्नतो विद्यां प्रज्ञप्ति प्राप्य निर्ययौ । प्रद्युम्नोऽप्यर्दयच्छाम्ब इव भीरुकमन्वहम् ॥ ३६५॥ भामयोक्तं न कि याहि प्रद्युम्नान्यत्र शाम्बवत् । प्रद्युम्नोऽवक्त गच्छामि मातः ! सम्प्रति गद्यताम् ॥ ३६६ ॥ सत्यभामा जगौ प्रेत-वने गच्छ त्वकं द्रुतम् । प्रद्युम्नोऽवग् वचो मात-स्तव प्रमाणमेव मे ।। ३६७ ।। अहं मातः ! कदेष्यामि सत्यभामा जगौ सतः । शाम्ब हस्ते गृहीत्वाऽहं पुर्यां यदाऽऽनयाम्यहम् ॥३६८ ॥ तदा त्वया समागम्यं महोत्सवपुरस्सरम् । ततो मातुः गिरा सद्यः प्रद्युम्नोऽगात् पितुर्ग्रहे ॥ ३६९ ।। भ्रमन् देशान्तरे शाम्ब-स्तत्र प्रेतवने क्रमात् । समेत्य मिलितो भ्रातुः प्रद्युम्नस्य करनतिम् ॥ ३७० ॥ इतो भामा कनीनां त्वे-कोनशतममेलयत् । भीरूद्धाहकृते कन्या-नैकामिलति सुन्दरी ॥३७१ ।। .
2S52S325525525525525521
॥५०१॥
For Private and Personal Use Only