________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।
शत्रुञ्जय कल्पवृ०
४९९॥
SESSISSESESESESESEPSESE SE
अथ कृष्णो जगौ कोऽस्ति यः कन्यां नयतेऽत्र हि । आनयिष्याम्यहं कन्या-मित्युक्त्वा कृष्णजोऽचलत् ॥ ३३४ ॥ तेनानीतां की तस्मै दीयमानां बलादपि । प्रद्युम्नो दापयामास भानवे लसदुत्सवम् ॥ ३३५ ॥ खेचराः खेचरीभूमि-चरा भूमिचरीहूः । प्रद्युम्नाय ददुश्वारूत्सवं तत्रैत्य कन्यकाः ॥३३६ ॥ जीर्णमश्चस्थितां भामां दृष्ट्वाऽप्राक्षीद्रमापतिः । कि तेऽस्ति हृदये दुःखं ? सत्यभामा ततो जगौ ॥३३७ ॥ प्रद्युम्नसदृशं पुत्र प्रापेऽहं तव पार्श्वतः । कृष्णोऽवग् न त्वया दुःखं कार्य पुत्रो भविष्यति ॥ ३३८ । चतुर्थतपसा तुष्टो नैगमैषी हरिं जगौ । किं ते विलोक्यते कृष्ण ! ततो हरिर्जगावदः ॥३३९ ।। तथा कुरु यथा सद्यः प्रद्युम्नस्य समः सुतः । जायते सत्यभामाया बलरूपरमादिभिः ॥ ३४० ॥ हारं दत्त्वा जगौ देवः पत्न्या देयस्त्वया ह्ययम् । भविष्यति क्रमात्पुत्रो आमाया मदनोपमः ॥३४१ ॥ गतेऽथ निर्जरे हार-स्वरूपं विद्यया तया । ज्ञात्वा जाम्बुवतीं भामा-तुल्यां युम्नो ह्यकारयत् ॥३४२ ॥ विद्यया प्रेरिता जाम्बु-वती कृष्णान्तिके ययौ । भामाभ्रान्त्या च तं हारं दत्त्वा तां बुभूजे निशि ॥ ३४३ ॥ सुस्वप्नसूचितः स्वर्गा-सच्युतः कोऽपि सुधाशनः । चञ्चत पुण्यप्रभावेन तस्याः कुक्षाववातरत् ॥३४४॥ गतायां जाम्बुवत्यां तु भामाऽगाद् भोगहेतवे । कृष्णो दध्यावियं भोग-कृतेऽगात्तत्क्षणात् पुनः ॥ ३४५॥ भोगेनैकेन जायेत तृप्तिः पुंसश्च न स्त्रियः । जायतेऽष्टगुणः कामो यतो नार्या नरात् किल ॥ ३४६ ॥
SSESSESSESSESS25222ESES
॥४९९॥
For Private and Personal Use Only