________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmm
शत्रुञ्जय कल्पवृ०
॥ ४८७॥
555ZSSESZESSESESESTSE
जरासन्धनृपाद्मीताः समुद्रविजयादयः । यादवा बलकृष्णाभ्यां युक्ता नेशुः स्वदेशतः ॥१८५ ॥ मार्गे ते यादवाः सर्वे चलन्तस्त्वरितं क्रमात् । अत्रायातां नृणामास्यात् शुश्रुषुस्त्विति सादरम् ॥१८६ ॥ हन्तव्याः यादवाः सर्वे यत्र तत्र गता मया । प्रतिज्ञामिति कृत्वा स कालकः सबलोऽचलत् ॥१८७ ।। श्रुत्वेति यादवाः सर्वे वारिता मयका बहु । चितास्वाशु प्रविष्टास्ते मृत्युहेतोः कृतत्वराः ॥१८८ ॥ तेषां वियोगतोऽवाहं दुःखिता मानसे भृशम् । रोदिम्युच्चैःस्वरं नाभू-द्रक्षिता कोऽपि निर्जरः ॥१८९॥ स्वां प्रतिज्ञा स्मन् काल-कुमारो यादवांस्तदा । कर्षितुं ज्वलने सद्यः प्रविष्टो मूढमानसः ॥१९॥ अपरे बहवः काल-कुमारस्यानुगास्तदा । प्रविष्टाः स्वामिनः पृष्ठे स्वामिभक्ताः कृतत्वराः ॥१९१ ॥ * यत:-'क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते । अनुकूलः शुचिर्दक्षः स्वामिन् ! भृत्योऽपि दुर्लभः॥१९२॥ प्रविश्य यादवा वह्नौ मृता विन्ध्याचलान्तिके । तत्पृष्ठे कालको गत्वा मरणं समुपागमत् ॥ १९३ ॥ आकण्यतज्जरासन्धो हर्षशोकभयाकुलः । भूत्वा दध्यौ मृतः काल-कुमारो न हि तद् वरम् ॥ १९४ ॥ यादवानामितो यातां पश्चिमाककुभि तम् । अन्धेः कूले सुतौ सत्य-भामाऽमृत वरेऽहनि ॥ १९५॥ तयोर्जन्मोत्सवं कृत्वा यादवा भानुभामरौ । ददुर्नाम ततो देवा-नुजयन्तेऽचलेऽनमत् ॥ १९६ ।। समुद्रविजयेनोक्तः कृतस्नानो बलिहरिः । कृताष्टमतपा पूजां चकार पश्चिमाम्बुधेः ॥ १९७ ।।
ES592SSESZESSZISI:SES
mummmmmmmmmmmmmmmmm
॥४८७॥
For Private and Personal Use Only