________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ.
॥४८१॥
G252525252525252222
एवं छलात् तदा गत्वा गोकुले देवकी मुदा । स्तन्यपानादिना पुत्रं मोदयामास चेतसि ॥१०९॥ कृष्णांगत्वाद् ददौ नाम कृष्णेति नन्दगोकुली । शकुनि पूतनां कृष्णोऽवधीदादौ बलादपि ॥११॥ ततो विभेद शकटं पादपी यमलार्जुनौ । बभञ्ज बलतः कृष्णो मातुर्मोदं ददौ ततः ॥१११ ॥ कृष्णरक्षाकृते राम दुन्दुस्तत्रामुचत्तदा । रेमाते तौ दशधनु-देही परस्परं सदा ॥११२ ।। इतः सूर्यपुरे वर्ये समुद्रविजयप्रिया । चतुर्दश महास्वप्नान् शिवाऽपश्यन्निशान्तरे ॥११३ ॥ "गयवसहसीहअभिसेयदामससिदिणयरं झयं कुम्भं । पउमसरसागर-विमाण-भवण-रयणुञ्चय सिहिं च ॥११४॥" तदैव कार्तिक कृष्ण द्वादश्यां त्वाष्ट्रगे विधौ । अवातरत् शिवाकुक्षौ च्युत्वाऽपराजितात् प्रभुः ॥११५॥ नभसि श्वेतपश्चम्यां निशीथे त्वाष्ट्रगे विधौ । शिवाऽसूत सुतं कृष्ण-देहं सच्छङ्खलाञ्छनम् ॥११६ ॥ षट्पञ्चाशदिगकुमार्यः स्वस्थानादेत्य तत्र च । चक्रुनिजं निजं कृत्यं वैयावृत्त्यादिकं प्रभोः ॥११७॥ स्वस्वस्थानात् ततोऽभ्येत्य चतुःषष्टिश्च वासवाः । मेरुशीर्षे व्यधुर्जन्मोत्सवं तस्य जिनेशितुः ॥११८ ॥ “मेरु-अह-उड्ढलोआ उदिसिरुयगाउ अट्ठ पत्तेय । चउविदिसिमझरुयगाउ पइंति छप्पन्न दिगकुमरी ॥" गतासु दिक्कुमारीषु कृत्वा कार्य निजं निजम् । इन्द्र इन्द्रयुतो जन्मोत्सवं मेरौं व्यधात् प्रभोः ॥ १२० ॥
25SOSTSESTISSES
॥४८॥
For Private and Personal Use Only