________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
e
-
emama
शत्रुञ्जय कल्पवृ०
-
५६२॥
ZSTST2525252525TSSTSSTSE
ततः सीताऽसुमानिन्द्रः समेत्य रामसन्निधौ । नत्वाऽप्राक्षीत कदा मोक्षं गन्ता लक्ष्मणनायकः ॥१६२९॥ रामोऽवक पुष्करे द्वीपे विदेहे पापत्तने । लक्ष्मणप्राणभृच्चक्री पद्मनामा भविष्यति ॥ १६३० ॥ प्रपाल्य चक्रिपदवीं भूत्वा तीर्थङ्करः पुनः । छित्त्वाऽखिलतमो मोक्षं गन्ता पद्मजिनेश्वरः ॥१६३१ ॥ हनुमान्नन्दनं स्वीयं राज्ये न्यस्य विरागवान् । ललौ दीक्षां क्रमाच्छत्र-जये मुक्तिमीयिवान् ॥ १६३२ ॥ विन्ध्याशैलवने प्राप्ता-विन्द्रजिन्मेघवाहनौ । प्रापतुः केवलज्ञानं तत्तीर्थ च तदाह्वया ॥ १६३३॥ नर्मदायास्तटे यत्र कुम्भकर्णः शिवं ययौ । तत्तीर्थ कुम्भकर्णाहू बभूव भुवि विश्रुतम् ॥ १६३४ ।। राज्ये स्वं स्वं सुतं न्यस्य सोदरौ द्वौ लवाङ्कुशौ । लात्वा दीक्षां विदं प्राप्य सेत्स्यतः सिद्धपर्वते ॥ १६३५ ।। राम केवलिनं नत्वा सीतेन्द्रो धर्मवासितः । अच्युते तविषे सद्यो जगामामलमानसः ॥१६३६ ।। ततो दाशरथिर्ज्ञानी विहरन् वसुधातले । अयोध्यानगरो-पान्तवनेऽथ समवासरत् ॥ १६३७ ॥ उद्यानपालकाद्राम-मागतं नगरान्तिके । श्रुत्वाकुशलवौ (तौ तु) धर्म श्रोतुं समागतौ ॥ १६३८ ॥
ततो रामो ददौ धर्मो-पदेशमिति सादरम् । धर्मादेव शिवप्राप्ति-र्जायते देहिनां किल ॥१६३९ ।। } * "आयुर्वायुचलं सुरेश्वरधनुर्लोलं चलं यौवनं, विद्युद्दण्डतुलं धनं गिरिनदीकल्लोलवच्चश्चलम् ।
स्नेहं कुञ्जरकर्णतालचपलं देहं च रोगाकुलं, ज्ञात्वा भव्यजनाः सदा कुरुत भो ! धर्म महानिश्चलम् ॥१॥
PINTSETISESESESESES292
४६२॥
For Private and Personal Use Only