________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ ४५९॥
SSSSSSSSESMSSESESE
सय सत्त कुमारत्ते तिन्नेव सयाणि मंडलित्ते य । चत्तालिसय विजए जस्स उ संबच्छरातीआ ॥१॥ एक्कारस य सहस्सा सपंच णवया तहेव सद्विजुआ । वरिसाणि महारज्जे जेण सयासे ठिया विसया ॥२॥ बारस चेव सहस्सा हवंति वरिसाण पंचवीसूणा । भोत्तग इन्दियसुहं गओ य नरयं अणिमिअप्पा ॥३॥ देवाण को व दोसो परभवजणि समागय कम्मं । बन्धवनेहनिहेणं मओ गओ लक्षणो नरयं ॥४॥" मम पूर्वभवोद्भुतः स्नेहोऽभूल्लक्ष्मणे मुधा । न कृतात् कर्मणः कोऽपि छुटिष्यति तनूधरः ॥१६०२ ॥ प्रायो मोहसुरामत्तो जीवो नैव हिताहिते । जानीतेऽनादिसंसार-भ्रमखिन्नो दिवानिशम् ॥१६०३ ॥ लक्ष्मणोऽपि मम भ्राता तुर्ये श्वभ्रे गतो यदि । तदाऽन्येषां नृणां पापात् किं किं दुःखं न जायते ? ॥ १६०४ ॥ यतः-" एगो य सत्तमाए पंच य छट्ठी पंचमाए एगो । एगो चउत्थीए कण्हो कण्णो पुण तच्चपुढवीए ॥१॥" अथ राममुनिः पष्ठो-पवासी बिहरन् भुवि । महापुर्या विवेशैव भिक्षाग्रहणहेतवे ॥१६०५ ॥ तत्रैत्य भूपतिः सोमः प्रणम्य राघवं प्रति । प्राहाऽथाऽस्मद्गृहात भिक्षां गृहाणाऽनुगृहाण माम् ॥ १६०६ ।। ततो राम ऋषिः प्राह न ोकस्मिन् गृहे मम । भिक्षां प्रकल्पते लातुं ततो नोच्य मिदं वचः ॥ १६०७॥ ततो रामयतिर्भिक्षां शुद्धां पश्यन् गृहे गृहे । भीमस्य वणिजो गेहे शुद्धानमाप्तवाँस्तदा ॥१६०८॥ तदा तस्याऽऽलये पुष्प-रत्नवृष्टिं सुधाभुजः । वितेनिरे तथा हर्षों यथाऽभूद् धुसदामपि ॥ १६०९ ॥
TIPSS2SSESZS2552ESTIS:32SE
॥४५९
For Private and Personal Use Only