________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ४५८ ॥
1529252525
52525225T
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदादाससुश्राद्ध-मुखात् सुव्रतसंयतम् । समागतं निशम्याशु रामो हर्षं समागमत् ।। १५९० ॥ ततो भूरि-महीपाल - विद्याधरसमन्वितः । तत्रैत्य तं यतीशं तु ननामाऽनघमानसः ॥ १५९१ ॥ उत्ता मुकुटादीनि भूपणान्वखिलान्यपि । राम्रो व्रतं ललौ भूरि-भूप विद्याधरान्वितः ।। १५९२ ।। तदा बहु सहस्राणि भूपालाः साधुसन्निधौ । जगृहु: संयमं सद्यः संसाराम्बुधितारकम् ।। १५९३ ।। विशुद्धं चरणं शश्वत् पालयन् राघवो मुदा । विवादपद् भूरि-शास्त्राणि गुरुसन्निधौ ॥ १५९४ ॥ शत्रुघ्नोsपि तदा दीक्षां ललौ विभीषणोऽपि च । ताभ्यां सार्द्धं महीपालाः बहवः संयमं ललुः ।। १५९५ ॥ सार्द्ध रामेण भूपालाः सहस्राणि तु पोडश । जगृहु: संयमं मुक्त्वा तृणवद्राज्यमञ्जसा ।। १५९६ ।। ( नारीणां ) सहस्राणि त्रयस्त्रिंशत् सप्ताधिकानि तद्दिने । प्रव्रज्यां जगृहु: लक्ष्मी बती साध्य्यन्तिके मुदा ।। १५९७ ॥ श्रीसुतान्तिके रामः पठन् शास्त्राणि भूरिशः । पपाठ नवपूर्वाणि सार्द्धानि विनयाश्रितः ॥ १५९८ ।। ततो गुरूपदेशेन विहारमेकक: करन् । रामर्पिः कुरुते स्मोग्रं तपोऽभिग्रहभाक् सदा ।। १५९९ ॥ "यतः - अह णिग्गओ मुणी सो गुरुणा अणुमोइओ पउमनाहो । पडिवण्णो अ विहारं उत्तमसामत्थसंपण्णो ॥ १ ॥ ' भूमिभृद्गह्वरे तस्यां रात्रौ दाशरथेर्यतेः । तृतीयं ज्ञानमुत्पन्नं तद्ज्ञानावरणक्षयात् ।। १६०० ।। अवधिज्ञानतस्तुर्ये नरके लक्ष्मणं गतम् । विज्ञाय ध्यातवानेवं भवस्य विषमां स्थितिम् ॥ १६०१ ॥
For Private and Personal Use Only
525625252525252525252525
॥ ४५८ ॥