________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ४५४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतः - " असमिक्खिअकारीणं पुरिसाणं इत्थपाव हिययाण । सयमेव कथं कम्मं परितावपरं हँबइ पच्छा " ॥ १५५१॥ तदा तत्रैत्य गेहिन्यो मृतं वीक्ष्य पतिं स्फुटम् । रुदम्यो जगदुः कान्तः ! जल्प त्वमेकदा किल ।। १५५२ ॥ निशम्य लक्ष्मणं त्यक्त-प्राणं दाशरथिस्तदा । आगत्यावम् वचो देहि भो लक्ष्मण ! सहोदर ! || १५५३ ॥ अजल्पन्तं रमानाथं रामोऽवग् न मया तव । अपराधः कृतोऽतस्त्व-मुत्तरं वितरैकशः ।। १५५४ ।। आलिङ्ग्य लक्ष्मणं रामः प्राहोत्तिष्ठ सहोदर ! । त्वं विना निखिलं राज्यं दुःखितं विद्यतेऽधुना ॥ १५५५ ॥ यतः - " उडेहि सयणवच्छल ! वाया मे देहि विलवमाणस्स । किं व अकारण कुविओ हरसि मुहं दोसरहियस्स ॥ १ ॥ तहा ह णिदाहो दिवायरो हुअवहो व पज्जलिओ । जह डहइ णिरवसेसं देहं एक्कोअरविओगो ॥ २ ॥ किं वा करेमि वच्छय ! कत्तो वच्चामिहं तुमे रहिओ । ठाणं पिछामि न तं निव्वाणं जत्थ उ लहामि ॥ ३ ॥ हा वच्छ ! मुंचसु इमं कोवं सोमो अ होहि संखेवं । संपइ अणगाराणं वट्टइ वेला महरिसीणं ॥ ४ ॥ " सूर्योsस्तमगमत् पश्य लक्ष्मणोत्थाय वेगतः । कुमुदानि प्रफुल्लानि निद्राणानि कजानि च ।। १५५६ ।। इष्टं यद्विद्यते तेऽथ तज्जल्प पुरतो मम । विषादं त्यज संहर्ष श्रय श्रीनिलयाऽधुना ॥ १५५७ ॥ उतिष्ठ सोदरेदानीं व्यतिक्रान्ता निशाsखिला । उदयन् विद्यते सूर्यो बोधयन् पद्मकाननम् ॥ १५५८ ॥ त्वय्यजल्पति वादित्रं वाद्यते न हि केनचित् । जिनालयेऽपि सङ्गीतं कारयिष्यति कोऽधुना ॥ १५५९ ।।
For Private and Personal Use Only
Asaspaasa5254252525252
॥ ४५४ ॥