________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
ISTSSESS2SSSSS
॥४५३॥
LESESTSESESTSESTUPSZLE
यतः-"राया जायइ भिच्चो भिच्चो रायत्तणं पुण उवेइ । माया वि हवइ धूया पिया वि पुत्तो समुन्भवइ ॥१॥ एवं अरहरघडी-जंतसमे इह समस्थ संसारे । हिंडंति सबजीवा सकम्म विष्फदिअं सुइरं ॥२॥" रामो लक्ष्मणसंयुक्तः पालयन् मेदिनी चिरम् । लक्ष्मणे निविडां प्रीति धत्ते सोऽपि च राघवे ॥ १५४० ॥ अन्यदा वासवोऽप्राक्षी-दुपविष्टः सभान्तरे । अयोध्यायां नयी रामो भूपोऽस्ति लक्ष्मणान्वितः ॥ १५४१ ।। रामेऽस्ति यादृशी प्रीति-लक्ष्मणस्याधुना किल । रामस्य लक्ष्मणे प्रीति-विद्यते यादृशी पुनः ।। १५४२ ॥ न तादृश्यधुनाऽन्यत्र कस्यापि वीक्ष्यते भुवि । तदैको निर्जरः प्राह सत्यमेतत्त्वयोदितम् ॥१५४३ ॥ अहं तयोः करिष्येऽहं परीक्षां साम्प्रतं प्रभो ! । ततः स निर्जरोऽयोध्या-नगरी समुपेयिवान् ।।१५४४ ॥ लक्ष्मणस्यानुजस्यैव भृत्यस्य रूपमञ्जसा । कृत्वा तस्यान्तिकेऽभ्येत्य जगादेति कृपास्पदम् ॥ १५४५ ॥ उत्पन्नशूलरोगः सन् रामोऽद्य मृतिमीयिवान् । आकण्यैतद्वचोऽकस्माद् वज्रपातसहोदरम् ॥ १५४६ ॥ लक्ष्मणस्य तदा प्राणाः परलोकमसाधयन् । मोहेन जायते किं न नृणां दुःखादिकं खलु ॥१५४७ ॥ लेख्यविम्बमिव श्रीशं स्थितं प्रगतजीवितम् । दृष्ट्वा देवो निजे चित्ते दध्यावेवं पुनः पुनः ॥ १५४८ ॥ मयोक्ते हास्यवचने लक्ष्मणोऽयं महीपतिः । मृतोऽतोऽहं कथं पापा-च्छुटिष्यामि दुराशयः ॥ १५४९ ।। 'मृतस्य चक्रिणोऽशक्तो जीवितं दातुमात्मना । जानन देवो ययौ स्वर्गे विषादग्रस्तमानसः ॥ १५५० ।।
॥४५३॥
SSES
For Private and Personal Use Only