________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
॥४४३॥
2525252525252525LSEPS
ततो निर्गत्य भूयिष्ठ-भवान् तिर्यग्भवान् क्रमात् । प्राप्य स्वयम्भू भूपालोऽपाचकार तमो बहु ॥१४३२ ॥ कम्मोपशमनाल्लक्ष्मी-पुरे कुशद्विजन्मनः । स्वयम्भूजीव उत्पन्नः सावित्रिकाप्रियोदरे ॥१४३३ ॥ जाते तस्मिन् सुते विप्रो विधाय जननोत्सवम् । प्रभासकुन्द इत्याह्वां ददौ सज्जनसाक्षिकम् ॥१४३४ ॥ वर्धमानः क्रमात् प्राप्त-यौवनोऽथ विरागवान् । दीक्षां प्रभासकुन्दस्तु ललौ संयतसन्निधौ ॥ १४३५ ।। सदा तीवं तपः कुर्वन् षष्ठाष्टमादिकं मुदा । शरीरं कृशयामास प्रभासाभिधसंयतः ॥१४३६ ।। विद्याधरविभूति तु दृष्ट्वाऽन्येयुः स संयतः । निदानमकरोदेवं भूयासं खेचरेश्वरः ॥ १४३७ ॥ तपोविक्रयतोऽनेन साधुना संयमो मणिः । त्यक्तो मुधा गृहीतस्तु शोकमुष्टिरशर्मदः ॥ १४३८ ॥ यतः-" छेत्तण य कप्पूरं कुणइ वई कोहवस्स सो मूढो । आचुण्णिऊण रयणं अविसेसो गेहए बोरं ॥१४३९॥ दहिऊण य गोसीसं गेहइ छारं तु सो अबुद्धीओ । जो चरिअ तवं घोरं मरइ सनियाणमरणेणं" ॥१४४०॥ अथ प्रभासकुन्दस्तु निदानोज्झितपुण्यकः । मृत्वा तृतीयताविषे उत्पन्नो निर्जरो वरः ॥१४४१ ॥ च्युत्वा ततो दशास्यः स रत्नश्रवः-खगेशभूः । त्रिखण्डाधिपतिर्भूरि-विद्याभृत्सेवितोऽजनि ॥१४४२॥ श्रीकान्तस्याऽसुमान् भूरि-भवान् भ्रान्त्वा भवान् क्रमात् । दशाननोऽभवल्लङ्का-नायको वरविक्रमः ॥१४४३॥ ब्रह्मस्वर्गाच्च्युतो जीवो धनत्तस्य राघवः । अभूदाशरथिः पुत्रो वृद्धो दशरथस्य तु ॥१४४४॥
GSTĀSTSPSG25PSZICES525
॥४४३॥
For Private and Personal Use Only