________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥२७॥
1552.525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्रापुरि सोमक्ष्मा - पतेर्भानुमतीप्रिया । असूत पुत्रनन्दिन्यावेकस्मिन् वासरे किल ॥ १११ ॥ क्रमाज्जातिस्मृतिं प्राप्य दृष्ट्वा स्वं युगलिनो भवम् । मिथो विवाहमीहानौ तौ पृथक् परिणायितौ ॥ ११२ ॥ दूरस्थावपि सङ्कं न प्रापतु यदा नृप । आराधितस्तदा देवश्चन्द्रेण प्रोक्तवानिति ॥ ११३ ॥ मृगध्वजप्रिया चन्द्र-वती सुतं सुविष्यति । यं तं पश्यति नो यावद् मृगध्वजो नरेश्वरः ॥ ११४ ॥ तावद् विद्या तवादृश्य- कारिणी चन्द्रशेखर ! | भविष्यति ततश्चेतश्चिन्तितं स्वेच्छया कुरु ।। ११५ ॥ ततश्चन्द्रवतीजातं चन्द्राङ्कं तनयं रहः । आनीयाsत्रामुचचन्द्रो मयाऽस्थापि सुतस्तव ॥ ११६ ॥ त्यक्ता भोगसुखेनाहं पत्याऽन्येद्युस्तवाङ्गजम् । अवचं सुंश्व मां भोगांवन्द्राङ्क ! विलसत् सुखम् ॥ ११७ ॥ तन्द्राङ्क आष्ट मातरेवं किमुच्यते ? । मया प्रोचे न मे पुत्र-स्त्वं तु मृगध्वजेशितुः ॥ ११८ ॥ तेन त्वं देहि मे भोग-सुखं चन्द्राङ्क ! साम्प्रतम् । चन्द्रोऽवग् धिग् भवतीं तु धिग्भवं धिग् मनोभवम् ॥ ११९ ॥ * यतः - राजपत्नी गुरोः पत्नी मित्रस्य प्रेयसी तथा । स्वमाता पत्नीमाता च पञ्चैता मातरः स्मृताः ॥ १२० ॥ त्यक्त्वा मां जननीं सन्द्राङ्कस्ते पदद्वयम् । नन्तुं चेतोऽचलत् सायं योगिन्यासं ततोsहकम् ॥ १२१ ॥ चन्द्रवत्या स्वसोदर्या भोगाय चन्द्रशेखरः । स्थापितोऽस्ति भवद्गेहे दृश्यतेऽतो न केनचित् ॥ अवधिज्ञानतो मत्वा मयैतत्ते निवेदितम् । ततः क्रुद्धस्य भूपस्योपशमाय जगाद सा ।। १२३ ।।
१२२ ॥
For Private and Personal Use Only
15255252 52552525525525
॥ २७ ॥