________________
Shri Mahavir Jain Aradhana Kendra
शत्रुब्जय
कल्पवृ●
॥ ४३५ ॥
75252525 25 25 25 25 25 25 252s
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* यतः — “ इन्दधणु- फेण- बुब्बुयस मेसु भोएस दुरभिगंधेसु । किं एएस महाजस ! का रहबहुदुक्खजणपसु ॥ १ ॥ बहुजोणीसयसहस्सा परिहिंडंती अहं सुपरिसंता । इच्छामि दुक्खमोक्खं संपइ जिनदेसियं दिक्खं ॥ २ ॥ ततो रामो बलात् सीतां प्रति प्रोवाच सादरम् । अधुना त्वं व्रतं लाहि यदा शोभा तदा नहि ॥ १३३५ ॥ अथावसर आयाते गृहीतव्यं त्वया व्रतम् । अहं चापि व्रतं लातुं वाञ्छन्नस्मि तदा पुनः ।। १३३६ ।। इतस्तस्य पुरोधाने ज्ञानी सकलभूषणः । समेत्य समवासार्षीद् भूरिसंयत सेवितः ॥ १३३७ ॥ ततो रामः ससोदर्यो विभीषणादिसेवितः । धर्म श्रोतुं यतेः पार्श्वे ययौ ननाम चादरात् ॥ १३३८ ।। श्रुत्वा धर्मोपदेशं तु विभीषणो जगाविदम् । रामेण किं कृतं पुण्यं लक्ष्मणेन च पूर्वतः ।। १३३९ ।। येनेदृशी रमा जाता गजाश्वादिविभूषिता । लक्ष्मणेन च किं मृत्युं नीतो दशाननो रणे ॥ १३४० ॥ जानकी दण्डकारण्ये स्थितां मोहेन रावणः । सति सुन्दरशुद्धान्ते छलेन किमपाहर ? ।। १३४१ ॥ अथ ज्ञानी जगौ जम्बूद्वीपे भरते वरे । पुरे क्षेमङ्करे श्रेष्ठी जयदत्ताभिधोऽभवत् ।। १३४२ ॥ तस्यासीद् गेहिनी नाम्ना सुनन्दा शीलशालिनी । नन्दनो धनदत्तोऽभूद् वसुदोऽपरः पुनः ॥ १३४३ ॥ 'जन्यचक्राभिधो विप्रो मित्रं जातस्तयोः क्रमात् । त्रयस्ते सुहृदः शश्वत् क्रीड़ां वितन्वतेतराम् ॥ १३४४ ॥ * यतः 'कोsहं कस्मिन् कथमायातः का मे जननी को मे तातः । इति परिभावयतः संसारः सर्वोऽयं स्वप्नव्यवहारः
For Private and Personal Use Only
5252
॥ ४३५ ॥