________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ ॥ २५ ॥
525252
5252525255252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोsar न्द्यते कस्मात् सोऽवक्र पद्मावतीं कनीम् । लात्वा विमानमारूढो यावदत्राहमागमम् ॥ ८५ ॥ तावदेकाबला यानात् पपाताऽनघबालिका । ततोऽहमपतं नष्टं विमानं च क्वचिन्मम ॥ ८६ ॥ खगामिनी गता विद्या तेन रोदिमि साम्प्रतम् । स्त्र्यपहारो मयाऽकारि यत्ततः श्वभ्रगाम्यहम् ॥ ८७ ॥ पापादुपतं तं तु ज्ञात्वाssनीय जिनाश्रये । नत्वा देवं खगस्त्रीयुक् स्वाश्रये शुक ईयिवान् ॥ ८८ ॥ वानेयानप्रदानेन भोजयित्वाssदराच्च तान् । शुकोऽवम् व्योमगा विद्याssयाति वा विस्मृता तव ॥ ८९ ॥ खगोऽवक् प्रथमं पद्यं समेति मम साम्प्रतम् । शुकोऽवक श्रावय त्वं तत् कर्णयोन्यमगाऽधुना ॥ ९० ॥ खगामिनाssदि पद्ये प्रोक्ते सति शुकस्तदा । सम्पूर्णा व्योमगां विद्यां शिक्षयामास तं तदा ॥ ९१ ॥ शुकेनापि ( खगेनापि ) खगा विद्या शुकाय प्रददे मुदा । द्वावप्यथ खगौ जातौ बायुवेगशुकावपि ॥ ९२ ॥ शत्रुञ्जये जिनान् नत्वा गागलौ समुपागते । शुकः खगयुतश्वम्पा नगर्यां समुपेयिवान् ॥ ९३ ॥ खगोऽरिमर्दनक्षोणी-पतेरग्रे जगाविति । मया पापात्मना पद्मावती तव हृता सुता ॥ ९४ ॥ इत्यादि सकलं स्वीय- वृत्तं तत्रागमान्तिकम् । वायुवेगो जगौ वृत्तं शुकस्य च नृपाग्रतः ॥ ९५ ॥ पद्मावतीचेतो ज्ञात्वाऽरिमर्दनस्तदा । शुकाय प्रददौ चारु महोत्सवपुरस्सरम् ॥ ९६ ॥ वायुवेगस्ततो नीत्वा स्वपुरे शुकमादरात् । वायुवेगां सुतां तस्मै व्यश्राणयद्वरोत्सवम् ॥ ९७ ॥
For Private and Personal Use Only
5252552552525255255255252
॥ २५ ॥