________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ESS
ISPSESSGESESSE
शत्रुञ्जय कल्पवृ०
॥४०६॥
श्रीरामो लक्ष्मणः श्रीमान् भरतोऽपि परे जनीः । दध्युश्चेत् केवलीहै ति तदा हस्तिमनो वदेत् ॥ १०२६ ॥ इतस्तत्र पुरे देश-भूषणः कुलभूषणः । संयतौ द्वौ समायातौ विशुद्धचरणादरौ ॥१०२७ ।। कुर्वाणयोस्तयोः शुक्ल ध्यानं पुण्यतमःक्षयात् । उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ॥ १०२८ ॥ देवैविरचिते ज्ञान्यु-त्सवेऽथ देशभूपणः । दातुं यदोपदेशं तु लग्नो रैविष्टरस्थितः ॥१०२९ ।। तदा पयः समायातं ज्ञानिनं भातृसंयुतः । अग्रे कृत्वा गजं नन्तुं ज्ञानिपार्वे समीयिवान् ॥१०३०॥ प्रदक्षिणात्रयं दत्त्वा ज्ञानिनो राघवो मुदा । भ्रातृहस्तियुतो धर्म श्रोतुमग्रे ह्युपाविशत् ॥१०३१॥ ततो भव्यावबोधाय केवली देशभूषणः । धर्म जीवदयायुक्त द्विधा प्राहेति विस्तरात् ॥१०३२ ॥ * तथाहि-पढमो गिहवासीणं सायारो णेगपज्जवो धम्मो । होइ निरायारो पुण णिग्गंथाणं जइवराणं ॥१॥ * धम्मो अ परमपंधू ताणं सरणं च होइ जीवस्स । धम्मो सुहाण मूलं धम्मो कामदुहा घेणु ॥२॥ इत्यादिक अथ लक्ष्मीधरोऽप्राक्षीद् भरतं प्रेक्ष्य कुम्भ्ययम् । मोदते मुश्चते चाश्रु कथं तत् कथ्यतां गुरो! ॥१०३३ ॥ देशभूषण आचष्ट प्राप्य जातिस्मृति गजः । भरतेक्षणतः पूर्व भवं निन्दति साम्प्रतम् ॥१०३४ ॥ लक्ष्मणोऽवग् वदेदानी कुम्भिपूर्वभवान् यते ! । ततो ज्ञानी जगौ पूर्व-भवास्तस्यैव दन्तिनः ॥ १०३५॥ यदा श्रीवृषभो वृत्तं जग्राह सुरसाक्षिकम् । तदा कच्छमहाकच्छा-दयो वृषभसेवकाः ॥१०३६ ॥
252525252525
HI४०६॥
For Private and Personal Use Only