________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
ELFIES
॥३७६॥
तवैव मृत्युवेलेषा वर्णिका दर्शिता मया । गच्छाम्यहं समायातं रामं विद्धि दशामम ! ॥ ६८८ ॥ लङ्का दग्धा वनं भग्नं (दग्धं ) राक्षसाः प्रलयं गताः । यत् कृतं रामदूतेन स रामः किं करिष्यति ? ॥ ६८९ ॥ पश्यतो मे दशास्यस्य राक्षसानां प्रपश्यताम् । उड्डीय हनुमान् यातो दृष्टिगोचरतस्तदा ॥ ६९० ॥
सीताचूडामणिं सीता-मिव रामाग्रतस्तदा । मुक्त्त्वा मरुत्सुतोऽनंसीद् रामं च लक्ष्मणं क्रमात् ॥ ६९१ ॥ शत्रुजयला
सीतासस्याः शुभोदन्ते प्रोक्ते हनुमता तदा । आलिङ्गय मारुति प्रेम्णा रामोऽवक कुशलं तव ॥६९२ ।। कल्पवृ०
मरुत्पुत्रो जगौ स्वामिन् ! प्रसत्तेस्तव सेवकः । दुष्करं सुकरं कार्य करोत्येव न संशयः ॥ ६९३ ॥ सीतामिलनपौलस्त्य-विगोपनादिकेऽखिले । प्रोक्ते हनुमता रामो मुमुदे ससहोदरः ।। ६९४ ।। ततः सदचनैर्वायु-पुत्रमालाप्य सादरम् । मारुतेः पुरतो राम-चन्द्र एवं जगौ तदा ॥ ६९५ ।। त्रिदशैरपि दुर्लकथा लङ्का नाम महापुरी । कथं वीर ! त्वया दग्धा विद्यमाने दशानने ॥ ६९६ ।। उक्तंच-'सत्तेव जोअणसया वित्थिपणो सबओ समंतेण । तस्स चित्र मज्झ देसे अस्थि तिकडोत्ति वरसेलो ॥ नव जोअणाणि तुंगो पण्णासं जोयणं सचओ य वित्थिन्नो । सिहरं नस्स विरायइ उन्भासेउं दस दिसाओ । सिहरस्स तस्स हेतु जम्बूणयकणगवित्तपागारं । लंकापुरित्ति नाम नयरी सुरसंपयसमिद्धा ॥३॥" ततः कृताञ्जलि यो-भूयः प्रणम्रमस्तकः । हनुमानुक्तवान् भक्ति-रसपूरितमानसः ॥६९७ ॥
GOSTITSES SPSS
LISTLUSPES25PSSTSESSTEL
IF३७६॥
For Private and Personal Use Only