________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सत्यां शक्त्यामपि व्योम-श्वासपुत्रस्तदा स्वयम् । स्वशक्ति दर्शयामास नहि शक्रजिते मनाम् ॥ ६७५ ॥ इन्द्रजिन मारुति तात-पार्श्वे नीत्वा जगावदः । असौ सीताक्रमौ नत्वा रामशुद्धिमचीकथत् ॥ ६७६ ॥ अनेन जानकीपार्श्वे प्रोक्तं रामः सलक्ष्मणः । हत्वा दशाननं त्वां स्व-ङ्गीकरिष्यति वेगतः ॥ ६७७ ॥
बभञ्जाऽसौ तरून देव-रमणोद्यानसङ्गतान् । वनपालमसावक्षं बनान्यन्यानि च स्फुटम् ॥६७८ ।। शत्रुजय
रावणोऽथ जगौ दुष्ट ! पापिष्ठाधमशेखर ! । सीतायै रामभद्रस्य सन्देशादीनचीकथः ॥ ६७९ ॥ कल्पवृत
उद्यानवनछेदादि-पापानि त्वमचीकरः । मर्तुमत्र त्वमायातः स्मर रामं निजं पतिम् ॥ ६८० ॥ ॥३७५॥
मारुतिः प्राह यत् पापं सीताया हरणात् कृतम् । तस्मै दास्यति मत्स्वामी राम आलोचनां द्रुतम् ॥ ६८१ ॥ मुञ्चेमा जानकीमद्य यदि त्वं दशकन्धर ! । तदा ते कुशलं नो चे-न्मृत्युरेव तवाऽऽगतः ॥ ६८२ ॥ श्रुत्वैतद्रावणो रुष्टो जगाद सेवकान् प्रति । अमुं खड्गप्रहारेण नयध्वं यममन्दिरम् ॥ ६८३ ॥ यावदायान्ति पौलस्त्य-प्रहिता हननोद्यताः । सेवका मारुति खड्ग-प्रहारैर्निर्दयं धनम् ॥ ६८४ ।। त्रोटयित्वाऽऽशु तावच्चा-ऽहिबन्धं मारुतिद्भुतम् । पौलस्त्यमुकुटं चूर्णी-चक्रे पर्पटपुञ्जवत् ।। ६८५ ।। ततो दशाननः प्राह पुच्छमस्य च दह्यताम् । पुच्छे प्रज्वालिते सोऽपि लङ्कां प्राज्वालयत्तदा ॥ ६८६ ॥ उत्पत्योत्पत्य स व्योम्नि दग्ध्वा रावणमन्दिरम् । उद्यानं च मरुत्पुत्रो रावणाने जगावदः ॥ ६८७॥
TISSPSSESESTSES22SESSO
252525252525SISSES:SEST
For Private and Personal Use Only