________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पबृ०
॥३७४॥
12525252SPS2S25PSSSTSEIS
वायुपुत्रोपरोधेन रामस्य कुशलवरोः । एकविंशत्यहोरात्रि-प्रान्ते पारणकं व्यधात् ॥ ६६७ ॥ हनुमन्तं प्रति सीता प्राह
" असावगाधी बहुनीरपूरै-निस्तीर्णवान् यो मनसोऽप्यगम्यः ।
त्वां पुत्र ! पश्यामि च हीनगात्रं निस्तीर्यते किं भवतात्मपुत्रः ॥१॥ अमुं तपो रक्षतु लक्ष्मणस्य तदार्जवं रक्षतु चा(वा)युसूनोः ।
बलीमुखं रक्षतु संशयस्थ-ममायमन्तःकरणं ममापि ॥२॥ सीतायै मुद्रिकां दत्त्वा रामस्मरणहेतवे । सीता चूडामणि लात्वा सीताशी अनमञ्च सः ॥ ६६८ ॥ जगाद मारुतिर्मात-स्त्वया खिद्यं मनाग नहि । हत्वा दशाननं राम-स्त्वामेवाङ्गीकरिष्यति ॥ ६६९ ।। स्मरन्ती त्वं जिनेन्द्रांही रामनाम च नित्यशः । धर्मकृत्यं न मोक्तव्यं दुःखं कार्य च नो त्वया ॥ ६७० ॥ चूडामणिरयं राम-भद्राय दास्यते मया । ततो रामः सतीं त्वां च मत्वा हृष्टो भविष्यति ॥ ६७१॥ नत्वा सीतां बजन देव-रमणोद्यानपादपान् । बभजाऽऽदौ मरुत्पुत्रो वनपालं ततो न्यहत् ॥ ६७२ ।। जघानाक्षं ततोऽन्यानि वनानि मारुतिस्तदा । इतस्तत्राऽऽगतः शक्र-जेता रावणनन्दनः ॥ ६७३ ॥ ... युद्धं कुर्वन् दशास्याङ्ग-जन्मा मारुतिमञ्जसा । बबन्ध सर्पराइवन्धै-निर्दयं हर्षिताशयः ॥ ६७४ ॥ ..
2STISESSEISPIESTS25PSGT5 %3Don
३७४
For Private and Personal Use Only