________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुष्जय
कल्पवृ०
॥ ३७२॥
SESESESE SISTSTST22SESS2I
ततो रामादिविद्याभृद्-युरो गत्वा स लक्ष्मणः । उदपाटयत् शिलां कोटिं पश्यत्सु नृषु भूरिषु ॥६४६ ।। यदा रामः सीतां ज्ञातुं कृशाङ्कं हनुमन्तं । प्रेषयामास तदा को प्यवम् विद्याधरेश्वरः ॥ ६४७॥ आशे सर्वस्य सर्वत्र न कचित् प्रतिहन्यते । ईदृशादपि यत् सत्त्वा-दार्यः कल्याणमिच्छति ॥ ६४८ ॥ ज्ञातुं सीतास्थितिं [ रामो] हनुमन्तं सुविक्रमम् । प्रेषयामास लङ्कायां रहः शोभनवासरे ॥ ६४९ ॥ उल्लङ्घयन् गिरीन् ग्रामान् पुराणि सरितस्तदा । हनुमानभसा गच्छन् लङ्कायाः सन्निधौ ययौ ॥ ६५० ॥ लङ्कायाः सन्निधौ विद्या-माशालिं दुःशकां नृणाम् । स्थापितां दशवक्त्रेणा-पाचकार भुजावलात् ।। ६५१ ॥ गतेषु रावणाधेषु राक्षसीव स सत्वरम् । हनुमान् गभस्ति रिवोऽभूत् सीताया गोचरे दृशः ॥ ६५२ ॥ नतो वज्रमुखान् कोणपादिनो भीपणाननान् । निहत्य हव्वतोऽचाली-दग्रतो हनुमान बली ॥ ६५३ ॥ उत्प्लुत्य हनुमान् व्योम्नि वने सीतापवित्रितम् । ज्ञात्वा रक्षोमुखात् सीता पाचँ छन्नं रहः स्थितः ॥ ६५४ ॥ राक्षसीभिर्दशास्याय बोध्यमाना च जानकी । मलक्लिन्नाम्बरी सीतां जल्पद्रामाभिधां तदा ॥ ६५५ ।। गृहन्तीमहतो नाम रामनामान्तराऽन्तरा । सीतां दृष्ट्वा मरुत्पुत्रो दध्यावेवं निजं हृदि ॥ ६५६ ॥ विश्वस्य पावनी सर्व-सतीनारीशिरोमणिः । सीतेयं विद्यते राम-गेहिनी शीलशालिनी ।। ६५७ ।। युक्तमस्याः सुधर्मिण्याः कृते दाशरथिः सदा । खिद्यते कुरुते वाल-यितुं चोपक्रमं पुनः ॥ ६५८ ॥
SUSISSESESSESESP52 ommmmmmmmmmmmmmmmonane
SPSS
॥३७२।
For Private and Personal Use Only