________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
-
शत्रुञ्जय कल्पवृ०
॥३७०॥
ततः ससोदरं रामं नत्वा सुग्रीव ऊचिवान् । कृपां कृत्वाऽरितस्त्वं मे राज्य पालय साम्प्रतम् ॥ ६२३॥ किष्किन्धायां सह भ्रात्रा गत्वा रामः ससोदरः । युद्धायाऽऽकारयन्माया-सुग्रीवं सपरिवह(कर)म् ॥ ६२४ ॥ द्वयोः सुग्रीवयोस्तुल्य रूपं जल्पनमेव च । निरीक्ष्याध्यायि रामेणान्तरे सत्योऽनयोश्च कः ॥ ६२५ ॥ युद्धं चेत् क्रियते तर्हि नृसंहारो भवेदहुः । ततस्तथा करिष्येऽहं सुसुखं स्याद्यदावयोः ॥ ६२६ ।। रामोऽथ सत्यसुग्रीव-ज्ञप्तये समरे तथा । वज्रावर्तस्य चापस्य गुणघातमताडयत् ॥ ६२७ ॥ वेशप्रावर्तिनी विद्या मायासुग्रीवविग्रहम् । मुक्त्वा नश्यन्तमेवाम मपश्यन् मायिनं जनाः ॥ ६२८ ।। तत एकेन बाणेन सुग्रीवं मायिम द्रुतम् । रामोऽनैषीद्यमावासं ततोऽन्यं शिश्रियुः प्रजाः ।। ६२९॥ ततो दाशरथिर्भात-युतः सुग्रीवभूभुजे । किष्किन्धानगरीराज्यं ददौ सन्मानपूर्वकम् ॥ ६३० ।। भामण्डलो विराधश्च कालज्ञौ सपरिच्छदौ । रामं नत्वोचतुः कार्य मह्यं दिशतु साम्प्रतम् ।। ६३१ ॥ जाम्बुवान हनुमान् नीलो निषधश्चन्दनोऽपि च । गम्भीरोऽरिंदमः सुन्दः सुग्रीवं शिश्रियुर्मदा ॥६ सुग्रीवो राममापृच्छथ सीताऽन्वेणहेतवे । हनुमन्तं लसतसारं प्रजिघाय विचक्षणम् ॥ ६३३ ।। इतो दशमुखो वाञ्छन् भोगाय रामगेहिनीम् । स्वप्रियाः प्रेषयामास सन्मानयितुमञ्जसा ॥ ६३४॥ गत्वा सीतान्तिके प्रोचू रावणस्य प्रियास्तदा । रावणं वृणु भो! सीते ! त्रिखण्डभृमिनायकम् ॥ ६३५॥
-
SZTE225252SƏSASTSSESE
SESISSESESSESSPSSRT
H॥३७॥
For Private and Personal Use Only