________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
-
TEST2SS
शत्रुजय कल्पवृ०
पूर्वमिच्छुरितस्तारां स साहसगतिः खगः । इष्टरूपकरां विद्यां ससाध विप्रतारिणीम् ॥ ६१॥ सुग्रीवे क्रीडितुं याते शुभोद्यानेऽन्यदा मुदा । स साहसगतिविद्या-धरः सुग्रीवरूपभृत् ॥ ६११ ॥ तारामिच्छुः पुरीमध्ये-ऽभ्येत्य सुग्रीवविष्टरे । उपविष्टोऽनुगैः सर्वैः सेव्यते भक्तिपूर्वकम् ॥ ६१२ ॥ उत्थायान्तःपुरे याव-द्याति सुग्रीवरूपभृत् । तावत् सत्योऽपि सुग्रीवो रुद्धो द्वारि समागतः ॥ ६१३ ।। सुग्रीवद्वितयं दृष्ट्वा संशये पतितस्तदा । चन्द्ररश्मिः सुतो बालेः शुद्धान्तमरुणत स्वयम् ॥ ६१४ ॥ सुग्रीवो मायिको नान्तः-पुरे प्रदेशमाप्तवान् । अन्योऽपि न पुरीमध्ये प्रवेशं लभते तदा ॥ ६१५ ॥ किष्किन्धानगरीमध्ये स्थितः सुग्रीवभूपतिः । कियद्भिर्मन्त्रिभिश्चान्तः-पुरं नाना निसेव्यते ॥ ६१६ ॥ बहिस्थोऽपि स सुग्रीवः कियद्भिः सुभटादिभिः । मन्त्रिभिः सेव्यते व्यक्ति-कत्तुं शक्तस्तयोर्न कः ? ॥ ६१७ ॥ सुग्रीवयोर्द्वयोरास-अक्षौहिण्यश्चतुर्दश । ततो द्वाभ्यां विधीयेत सङ्ग्रामो दारुणः सदा ॥ ६१८॥ क्षीणास्त्रः पुरबाह्यस्यः सुग्रीवो ध्यातवानिति । अक्षीणपौरुषो वालि-र्दीक्षां लात्वा शिवं ययौ ॥ ६१९ ॥ अंतःपुरेऽधुना शत्रु प्रविशन्तं रुरोध यः । अज़ानानो द्वयोर्भेदः (दं ) स बालिसनुरद्भुतः ॥ ६२०॥
खरो मम सखा पूर्व रामेण दोष्मता हतः । ततो राज्यं विराधस्य ददौ श्रयाम्यहं च तम् ॥ ६२१ ।। A सुग्रीवोऽपि विमृश्यैवं विराधसुहृदन्तिके । गत्वाऽऽहाहं श्रये रामं रोचते यदि तेऽधुना ॥ ६२२ ।।
SITSSESSZSS2552525252SS2
mummmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmoc
STIZS2SSEGG
॥३६९॥
For Private and Personal Use Only