________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ०
॥ ३०४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः सान्तःपुरचैत्ये कारिते भरतेन तु । रावणः पूजयामास नाभेयादिजिनाधिपान् ॥ ४४१ ॥ क्षमयित्वाऽपराधं स्वं भावपूजाकृते तदा । स्नसां तंत्रीं भुजं वीणां विदधे दशकन्धरः ॥ ४४२ ॥ तादृश्या वीणया नाद - पूजामये जिनेशितुः । कुर्वन् दशाननः प्राप तदैक्यं प्रभुणा समम् ॥ ४४३ ॥ तदा तत्राssगतः शेषो नत्वा भक्त्या जिनेश्वरान् । दशास्यं ध्यानमारूढं दृष्ट्वा हृष्टो जगावदः ॥ ४४४ ॥ दशास्य ! प्रभुभक्त ! त्वं वरं वृणु यथेप्सितम् । रावणोऽवक् प्रभोर्भक्ति-रेवाऽस्तु सुचिरं मम ॥ ४४५ ॥ arooतो दशास्यस्य प्रभुभक्तस्य सर्पराट् । अमोघविजयांशक्तिं दत्त्वा विद्याश्व निर्ययौ ॥ ४४६ ॥ नित्यलोकपुरे गत्वा नमस्कृत्य जिनेश्वरान् । वायुवेगसुतां रत्न-वतीं स परिणीतवान् ॥ ४४७ ॥ तत्र वैतादयभूमिधे अन्याः खगकनीर्वराः । परिणीय दशास्यः स्व-पुरीं लङ्कां समीयिवान् ॥ ४४८ ॥ इतो बाली तपस्तीव्रं कुर्वन् ध्यायन् परं महः । घातिकर्मक्षयादाप केवलज्ञानमञ्जसा ॥ ४४९ ॥ बालिः प्रबोध्य भब्र्याङ्गि-जनान् भूरीन सुधर्म्मणि । आयुः क्षये ययौ मुक्ति शत्रुञ्जयशिलोच्चये ॥ ४५० ॥ तदा वाचंयमा लक्ष द्वादश प्रतिमावराः । अवाप्य पञ्चमं ज्ञानं मुक्तिपुर्यां समागमन् ॥ ४५१ ॥ विद्याभृद्ज्वलनशिख- प्रियाऽत सुतां वराम् । तस्यास्तारेति नामादात् पिता कृत्वा जनुर्महः ॥ ४५२ ॥ यौवनस्थां रूपां तु साहसगतिसञ्ज्ञिकः । याचते व्योमगोऽभ्येत्य परिणेतुं तमन्वहम् ॥ ४५३ ॥
For Private and Personal Use Only
1615252652525252525525525
॥ ३५४ ॥