________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmmmmmmm
शत्रुञ्जय कल्पवृ०
॥ ३५२॥
SESTSESESTSESESE252SESSZI
दशकण्ठाय सुग्रीवः श्रीप्रभा तम ददौ । यौवराज्यं मुदा बालि-मूनवे चन्द्ररश्मये ॥४१७ ॥ वैताढये वायुवेगस्य पुत्री रत्नवतीं वराम् । उद्वोढुं चलितो व्योम-वर्त्मना रावणोऽन्यदा ॥ ४१८ ॥ गच्छतो दशकण्ठस्या-टापदस्योर्ध्वमन्यदा । विमानं पुष्पकं बाढ-मन्यदा स्खलितं ध्रुवम् ॥ ४१९ ॥ अधस्ताद् बालिनं साधु वीक्ष्य दशाननस्तदा । साधुवेषधरोऽप्येष विमानं मेऽस्खलद् दृढम् ॥ ४२० ॥
साधुवेषमसौ दम्भाद् दधानो पालिसंयतः । मयि क्रोधी मयि द्रोही दृश्यतेऽद्यापि मायिकः ॥ ४२१ ॥ ज* यतः-“मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् ।)
सर्प इवाविश्वास्यो भवेत् तथाप्यात्मदोषहतः ॥ ४२२ ॥ H* पृष्ठतः सेवयेदर्क जठरेण हुताशनम् । स्वामिनं सर्वभावेन तथा वंचयते शठः ॥ ४२३ ॥
विमानमधुनाऽनेन स्खलितं व्रतदम्भतः । अतोऽमुं गिरिसंयुक्तं क्षिप्स्यामि लवणाम्बुधौ ॥ ४२४ ॥ पुराऽप्यनेन कक्षायां क्षिप्तोऽहं वासरान् बहून् । यतित्वेऽप्यधुना वरं न मुञ्चति मया समम् ॥ ४२५॥ अस्य पापयतेः प्राणान् नीत्वा यमनिकेतनम् । स्वस्थीभवाम्यहं भूरि-कालवैरिविवर्जितः ॥ ४२६ ।। विदार्योवीं ततोऽधस्ताद् गिरेः प्रविश्य रावणः । पर्वतोत्पाटनी विद्यां सस्मारैकाग्रमानसः ॥ ४२७॥ पर्वतोत्पाटनी विद्या-बलात् स्कन्धे च तं गिरिम् । स कृत्वा यावता चक्रे प्रयत्नं रावणो नृपः ॥ ४२८ ॥
152525STES2SSES2525252SES
For Private and Personal Use Only