SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥३४३॥ LZSESTUSESTSESTZSTISSEST यो न निर्गत्य निशेषा-मवलोकयति मेदिनीम् । अनेकाचर्यसम्पूर्णा स नरः कूपदर्दुरः ॥३१४॥ * दीसइ विविहचरिअं जाणिज्जइ सुजण-दुज्जणविसेसो । अप्पाणं कलिज्जइ हिंडिजइ तेण पुहवीए ॥३१५॥ विमृशन्निति स व्योम-गामी स्वीयात पुरात्तदा । मेदिनीमण्डलं द्रष्टुं निर्ययौ स्वविमानगः ॥ ३१६ ॥ भ्रमन्नशनिवेगस्तु किष्किन्धायां पुरि ध्रुवम् । सन्मानितो न किष्किन्धि सुकेशाभ्यां मनाग् यदा ॥३१७ ॥ ततस्तौ हन्तुकामोऽभूद्यावदशनिवेगकः । तावत् किष्किन्धिसुकेशावभृतां सज्जितौ युधे ॥३१८ ।। किष्किन्धिश्च सुकेशश्च जितौ तेन रणे तदा । वासं पाताललङ्कायां चक्रतुर्विभ्यतौ ततः ॥३१९॥ तत्र पाताललङ्कायां सुकेशस्य महीपतेः । इन्द्राणी प्रेयसी जाता सच्छीलगुणशालिनी ॥ ३२० ॥ इन्द्राणी मालिनं पुत्रं प्रसूतेस्म सुमालिनम् । माल्यवन्तं क्रमात चारु-लग्ने शोभनवासरे ॥ ३२१ ॥ किष्किन्धेर्भपतेः पत्न्या श्रीमालया विशिष्टया । जनितश्चादित्यरजा ऋक्षरजाश्च नन्दनौ ॥ ३२२ ।। नित्याहतः प्रणम्यायान् किष्किन्धिर्मधुपर्वते । किष्किन्धाहू पुरं स्थाप-यित्वा वासमचीकरत् ।। ३२३ ।। सुकेशस्य सुता रुष्टा लङ्कायां च समेत्य ते । जघ्नुश्वाशनिवेगस्य निर्घाताभिधसेवकम् ॥ ३२४ ॥ लङ्कायामभवन् माली राजा प्रपालयन महीम् । किष्किन्धायामभूदादि-त्यरजा वरनीतिमान् ॥ ३२५ ॥ मालिनश्चाभवत् प्रीति-रादित्यरजसि स्फुटम् । प्राभृतादिप्रदानेन तयोः प्रीतिविवर्द्धते ॥ ३२६ ।। STEIZ521512752 ॥३४३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy