________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥३४२॥
25TSSTSESTSESESTIGGESTSE,
तवमनुस्तु महारक्षा जिनाधिसेवनापरः । देवरक्षा सुतस्तस्य प्रव्रज्य च शिवं ययौ ॥ ३०१॥ देवरक्षःसुतो धर्म-रक्षा राजा नयी वृषी । पद्मरक्षं सुतं न्यस्य राज्ये जग्राह संयमम् ॥३०२ ॥ एवं जातेष्वसङ्ख्थेषु भूषेषु राक्षसान्वये । बभूव कीर्तिधवलो भूरि-विद्याग्धिपारगः ॥३०३ ॥ श्रेयांसस्याहतस्तीथें समुद्राचार्यसन्निधौ । प्रपेदे कीर्तिधवलो धर्म सर्वज्ञभाषितम् ॥३०४॥ इतो वैताढयभूमिध्राद् नीत्वा श्रीकण्ठखेचरम् । न्यवासयत् कपिद्वीपे स कीर्तिधवल: खगः ॥३.५॥ तत्र किष्किन्धभूमिधे योजनत्रिशतीमिते । अतिष्ठिपत् स किष्किन्धां राजधानी नवां स च ॥३०६ ॥ ये खगा वानरद्वीपे-ऽवसन् ते वानराः स्मृताः । वानराङ्गधरां विद्यां वानराह्वामसाधयन् ॥३०७॥ श्रीकण्ठाद् वानरीविद्या-वित्सु जातेषु भूरिषु । मुनिसुव्रततीर्थेऽभूद् घनोदधिः कपिः खगः ॥ ३०८ ॥ तदा लङ्काधिपो राजा तडित्केशाभिधोऽभवत् । तडित्केश-घनोदध्योः प्रीतिरासीन्मिथो द्वयोः ॥ ३०९॥ किष्किन्धायां किष्किन्धि-घनोदधिसुतोऽभवत् । लङ्कायां तु तडित्केशा-त्सुकेशोऽभूत् खगेश्वरः ॥३१॥ इतो वैताढयभूमिधे चक्रवालाभिधे पुरे । खेचरोऽशनिवेगाह्वो बहुविद्याधरोऽभवत् ॥३११॥ अन्येद्युः प्रातरुत्थाया ऽशनिवेगो व्यचिन्तयत् । वीक्ष्यते चेन्महीपीठं तदा स्यात् सफलं जनुः ॥ ३१२ ॥ यतः-भ्रमद्भिदृश्यते पृथ्वी नानातीर्थपुराऽन्विता । इलाध्यं च क्रियते जन्म ज्ञायते शक्तिरात्मनः ।। ३१३ ।।
225255DSZSZSES255SS2S
१२॥
For Private and Personal Use Only