________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
कल्पवृ०
॥३३९॥
25252525ZSZIS2525252SZE
* यतः-"आलस्योपहतः पादः पादः पाखण्डसंश्रितः । राजानं सेवते पाद एकः पादः कृषीवलः ॥१॥ * एकं पादं त्रयः पादा भक्षयन्ति दिने दिने । तथा भरत ! कर्त्तव्यं यथा पादो न सीदति ॥ २॥ एताः पश्य पुरो वत्स ! भुजप्रावरणः प्रजा । आभ्य एव प्रसूयन्ते चामरो चामराः श्रियः ॥ २७१ ॥ प्रपद्य रामवाणी तु भरतो राघवक्रमौ । प्रणम्य चलितः स्वीय-पुरे यातुं शनैः शनैः ॥ २७२ ॥ कैकेय्यपि यथायोग्यं रामादीन्निखिलाँस्तदा । आलाप्य चलिता सार्द्ध सूनुना हृतमानसा ॥ २७३ ॥ ततश्च राघवो हृष्टः सीता-लक्ष्मणसंयुतः । चचाल काननात्तस्मात् स्मरन् पश्चनमस्कृतिम् ॥ २७४ ॥ * आहूतस्याभिषेकाय विसृष्टस्य वनाय च । ददृशुर्विस्मितास्तस्य मुखरङ्ग समं जनाः ॥२७५ ॥ पथि पथिकवधूभिः सादरं पृच्छयमाना, कुवलयदलनीलः कोऽयमार्ये !! तवेति ।
स्मितविकचकपोलं वीडविभ्रान्तनेत्रं मुखमवनमयन्ती स्पष्टमाचष्ट सीता ॥ २७६ ॥ एतावता पथिकवधूभिख़तमयमस्या भर्ता रामः । रामो गच्छन् वनेऽन्येद्य-गम्भीरातटिनीतटे । वृक्षस्याधः स्थितोऽप्राक्षी-लक्ष्मणं सोदरं प्रति ॥ २७७ ॥ देशोऽयमुद्वसः कस्मा-दभूल्लक्ष्मण ! जल्प्यताम् । लक्ष्मणोऽवग् नरोऽति कोऽपि यः पृच्छयते स च ।। २७८ ।। देशोद्वसनहेतुं तु पृष्टः कश्चिन्नरस्तदा । रामेणावग् वरे देशे पुरे राणापुरेऽत्र च ॥ २७९ ॥
ISSISZSZEITSPSSESESTSZ
३३९॥
For Private and Personal Use Only