________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ.
॥३२५॥
L252525252525252STISESTI
तदा च बिभ्यती सीता यावन्नष्टा च तावता । नारदश्च गले धृत्वा तत् सख्या हक्कितो दूतम् ॥११८ ॥ रुष्टोऽथ नारदः सीता-रूपं चित्रपटस्थितम् । कृत्वा भामण्डलस्यैव दर्शयामास तत् क्षणात् ॥ ११९ ॥ सीतारूपं जगतइलाध्यं दृष्ट्वा भामण्डलस्तदा । मनोभूविह्वलो जात-स्तां वरीतुं च वाञ्छति ।। १२०॥ सीताया वरितुं वाञ्छां ज्ञात्वा भामण्डलस्य तु । खगश्चन्द्रगतिभृत्यं प्रति प्राहेति सादरम् ॥१२१ ॥ गच्छ त्वं जनकस्यान्ते जल्पेति मगिरा किल । खगश्चन्द्रगतिः सीतां भामण्डलाय वाञ्छति ॥१२२॥ तदा चन्द्रगते त्यो गत्वा जनकसन्निधौ । स्वस्वामिगदितं याव-दाहाऽथ जनको जगौ ॥१२३ ॥ रामायाऽहं स वाञ्छामि सीतां दातुं पुरा ध्रुवम् | अधुनेच्छास्ति न दातुं भामण्डलाय निश्चितम् ॥१२४ ॥ वज्रावर्णिवावर्ते द्वे चापे स्तो ममालये । देवताधिष्ठिते जीवा-सबले वज्रवद्दढे ॥१२५ ॥ यस्तयोश्चापयोर्मोा -रोपं किल करिष्यति । तस्मै सीतां प्रदास्यामि कन्यामन्यां च सुन्दराम् ॥१२६ ॥ माघशुक्लाष्टमीघस्रे स स्वयंवरमण्डपे । भूपा आकारयिष्यन्ते सीतावरणहेतवे ।। १२७ ॥ तत्रैकस्मिन्नपीष्वासे द्वयोर्वा यो नरो गुणम् । आरोपयिष्यति सोऽहाय सीतां परिणयिष्यति ॥ १२८ ॥ भामण्डलो दिने तस्मिँ-स्तत्रागच्छतु शीघ्रतः । चापोत्पाटनतः सीता-मङ्गीकुर्यात्तदा ध्रुवम् ॥ १२९ ॥ जल्पिते जनकेनेति भृत्यश्चन्द्रगतेस्तदा । गत्वा जनकभूपोक्तं सर्व स्वामिपुरोऽवदंत ॥१३०॥
TLSPOUSESS125ZRSSTS
For Private and Personal Use Only