________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥३२३॥
ASESTSESTSETEST25252T
तस्स महादेवीए पुहईए दो सुआ समुप्पन्ना । पढमो अणंतरहो (अ) बीओ पुण दसरहो नाम ॥२॥ अणरणो विअ नरवइ पुत्तं चिअ दसरह ठविअ रज्जे । निक्खमइ सुयसमग्गो पासे मुणि अभयसेणस्स ॥३॥ छट्टट्ठमदसमदुवालसेहिं मासद्धमासखवणेहिं । काऊण तवं घोरं अणरणो गओ मोक्खं ॥४॥ साहूवि अणंतरहो अणंतबलवीरिअसत्तसंपन्नो । संजमतवनियमरओ संपत्तो सासयं ठाणं ॥५॥" तस्य न्यायाध्वना पृथ्वी-पीठं पालयतः सदा । चतस्रो वल्लभा आसन् शीलरत्नविभूषिताः ॥ ९६ ॥ कौशल्या कैकेय्याह्वा च सुमित्रा सुप्रभा तथा । रूपनिर्जितकन्दर्पाःपत्न्यो नाम्ना क्रमादिमाः ॥ ९७ ॥युग्मम् ।। कुम्भसिंहेभमार्तण्ड-स्वप्नाभिसूचितं सुतम् । कौशल्याऽसूत तनयं रामं पद्मं च नामतः ॥ ९८ ॥ सिंहान्दुगजाग्निश्री-वाद्धिस्वप्नोपसूचितम् । सुमित्रा लक्ष्मणं नारा-यणं सूते स्म नन्दनम् ॥ ९९ ॥ कैकेयी सुषुवे सुष्ठु-स्वप्नाढयं भरतं सुतम् । अमृत सुप्रभा पुत्रं शत्रुघ्नाभिधमद्भुतम् ॥१०॥ पद्मनारायणौ प्रीति-भाजौ जातौ क्रमान्मिथः । शत्रुघ्नभरतौ प्रेम-परौ परस्परं पुनः ॥१०१ ।। इतश्च मिथिलापुर्या भूपोऽभूजनका भिधः । हरिवंश्या विदेहेत्य-भिधा तस्याऽभवत् प्रिया ॥ १०२ ।। पुत्रपुत्रीयुगं वयं विदेहा सुषुवे सुखम् । प्राग्जन्मवैरतोऽहार्षीत् पिङ्गल ः सुतं रहः ॥१०३ ॥ सजातकरुणो देवो भूषणैः कुण्डलादिभिः । भूषयित्वाऽमुचत्तं तु वैताढयस्य वने क्वचित् ॥१०४ ॥
HSHISESESSISESESSIS
momoooooo oooooooooom
॥३२३॥
For Private and Personal Use Only