________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
- ३१० ॥
PESS25525252525252a5a5a
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्राविडोsवग् गृहाणेदं राज्यं झटिति सोदर ! । वालिखिल्लो जगौ भ्रात-स्त्वं राज्यं लाहि मे ध्रुवम् ॥ ४१ ॥ मम सृतं श्रिया भ्रातर्मया युद्धं वितन्वता । यत्पापमर्जितं तेन श्रभ्रपातो भवेन्मम ॥ ४२ ॥ वैरं मुक्त्वा मिथः क्षन्त्वा सोदरौ द्वौ तदा क्षणात् । मेलयित्वा बहु स ययौ सिद्धाचले क्रमात् ॥ ४३ ॥ तत्र स्नात्रार्चनादीनि कृत्यानि द्वौ सहोदरौ । प्रासादौ प्रथमाप्तस्य कारयामासतुस्तदा ॥ ४४ ॥ तयोः प्रासादयोरष्टो तरशत्या सुमण्डपैः । रेजुर्द्वाराणि चत्वारि सत्तोरणयुतानि च ॥ ४५ ॥ मुख्या सदस्याधो द्वारं सज्जविधानतः । कारयामासतुर्मोदात् सिद्धाद्रौ द्वौ सहोदरौ ॥ ४६ ॥ ततोऽभ्येत्य निजे राज्ये स्वं स्वं तनुभवं क्रमात् । न्यस्याकारयतां पूजां जिनानां जिनसबसु ॥ ४७ ॥ ततो महोत्सवं कुर्वन् द्राविडो वालिखिल्लयुग् । महोदयमुनेः पार्श्वे जग्राह संयमं मुदा ॥ ४८ ॥ महोदयमुनिर्विद्या-धरसंयतसन्निधौ । अमुचद्यतिसम्बन्धि क्रियां शिक्षयितुं तदा ॥ ४९ ॥ शिक्षयित्वा क्रियाः सम्यक तपःकरणतत्परौ | पेठतुर्भूरिशास्त्राणि द्वावेव सोदरौ तदा ॥ ५० ॥
प्राप्ताचार्यपदौ द्वौ तु सोदरौ दशकोटिभिः । साधुभिः सहितौ सिद्ध-पर्वते ययतुः क्रमात् ॥ ५१ ॥ तत्राssगतस्य भव्यस्य पुरतस्तौ सहोदरौ । शत्रुञ्जयस्य माहात्म्य - मेवं प्रजल्पतुस्तदा ॥ ५२ ॥ * तथाहि - " अनन्तसुकृताधारः संसाराधितरण्डवत् । शत्रुञ्जयः सुराष्ट्रासु गिरिर्जयति शाश्वतः ॥ ५३ ॥
For Private and Personal Use Only
552529252525525525
॥ ३१० ॥