________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥३०६॥
129USSESISTICISTSUS
॥ श्री द्राविडवालिखिल्लादि-भूपालर्षिमुक्तिगमनसम्बन्धः ॥ दसकोडिसाहुसहिआ जत्थ दविडवालिखिल्लपमुहनिवा ।
सिद्धा नगाहिराए जयउ तयं पुंडरी तित्थं ॥१९॥ दशकोटिसाधुसहिता द्राविड-वालिखिल्लप्रमुखा नृपा इक्ष्वाकुवंशभवा यत्र शत्रुञ्जये शैले मुक्तिं ययुः, म तत् शत्रुञ्जयाह तीर्थ चिरं जयतात् । तथाहिऋषभस्वामिनः सूनो-द्रविडस्य महीपतेः । द्रविड विषयोपान्ते द्वावभूतां तनूभवौ ॥१॥ आद्योऽभूद् द्राविडो नाम्ना वालिखिल्लो द्वितीयकः । जयन्तौ रूपतश्चेतो-भवौ दानपरायणौ ॥२॥ द्रविडो भूपतिः शत्रुजये यात्रां सुविस्तरात् । विधाय कारयामास प्रासादं प्रथमप्रभोः ॥३॥ द्राविडाय सुतायाऽदा-न्मिथिलाराज्यमञ्जसा । ग्रामाल्लक्षं ददौ वालि-खिल्लाय द्रविडोऽन्यदा ॥४॥ भवद्भ्यां बैरवैरस्यं न कार्य नन्दनोत्तमौ ! । इत्युक्त्वाऽलात् प्रभोः पार्वे द्रविडः संयमश्रियम् ॥ ५ ॥ राज्यश्रिया क्रमावर्द्ध-मानं कीर्त्या च सन्ततम् । दृष्ट्वाऽनुजं दधौ द्वेषं तस्मिन् द्राविडभूपतिः ॥६॥ द्राविडो लोभतो वाली-खिल्लं स्वीयानुजं सदा । हन्तुमिच्छन् दिवा रात्रौ निद्रा न लभते मनाम् ॥७॥
G25255.252SSES2525252SESE
॥३०६॥
For Private and Personal Use Only